2026-01-20 02:25:50 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<verse lang="sa">सत्यधर्मघृणायुक्तो द्यूतविभ्रष्टचेतनः ।
करोत्यपाङ्गविक्षेपैः शान्तामर्षं वृकोदरम् ॥ ८ ॥</verse>

एष इदानीमर्जुनः,

<verse lang="sa">रोषाकुलाक्षः स्फुरिताधरोष्ठ-
स्तृणाय मत्वा रिपुमण्डलं तत् ।
उत्सादयिष्यन्निव सर्वराज्ञः
शनैः समाकर्षति गाण्डिवज्याम् ॥ ९ ॥</verse>

एष युधिष्ठिरोऽर्जुनं निवारयति । एतौ नकुलसहदेवौ,

<verse lang="sa">कृतपरिकरबन्धी चर्मनिस्त्रिंशहस्ती
परुषितमुखरागी स्पष्टदष्टाधरोष्ठौ ।
विगतमरणशङ्कौ सत्वरं भ्रातरं मे
हरिमिव मृगपोती तेजसाभिप्रयातौ ॥ १० ॥</verse>

एप युधिष्ठिरः कुमारावुपेत्य निवारयति -

<verse lang="sa">नीचोऽहमेव विपरीतमतिः कथं वा
रोषं परित्यजतमद्य नयानयज्ञौ ।
द्यूताधिकारमवमानममृष्यमाणाः
सत्वाधिकेषु वचनीयपराक्रमाः स्युः ॥ ११ ॥</verse>

इति । एष गान्धारराजः,

<verse lang="sa">अक्षान् क्षिपन् सकितवं प्रहसन् सगर्वं
सङ्कोचयन्निव मुदं द्विषतां स्वकीर्त्त्या ।
स्वैरासनो द्रुपदराजसुतां रुदन्तीं
काक्षेण पश्यति लिखत्यभिखां नयज्ञः ॥ १२ ॥</verse>

एतावाचार्यपितामहौ तां दृष्ट्वा लज्जायमानौ पटान्तान्तर्हितमुखौ

</page>