This page has been fully proofread once and needs a second look.

―i. 12.1]

प्रथमोऽङ्कः ।

<page>
<verse lang="sa">
सत्यधर्मघृणायुक्तो द्यूतविभ्रष्टचेतनः ।

करोत्यपाङ्गविक्षेपैः शान्तामर्षं वृकोदरम् ॥ ८ ॥

</verse>

एष इदानीमर्जुनः,

<verse lang="sa">
रोषाकुलाक्षः स्फुरिताधरोष्ठ

स्
तृणाय मत्वा रिपुमण्डलं तन्त्

उत्सादयिष्यन्निव सर्वराज्ञः

शनैः समाकर्षति गाण्डिवज्याम् ॥ ९ ॥

</verse>

एष युधिष्ठिरोऽर्जुनं निवारयति । एतौ नकुलसहदेवौ,

<verse lang="sa">
कृतपरिकरबन्धी चर्मनिस्त्रिंशहस्ती

परुषितमुखरागी स्पष्टष्टाधरोष्ठौ ।

विगतमरणशङ्कौ सत्वरं भ्रातरं मे

हरिमिव मृगपोती तेजसाभिप्रयातौ ॥ १०

॥</verse>

एप युधिष्ठिरः कुमारावुपेत्य निवारयति -

<verse lang="sa">
नीचोऽहमेव विपरीतमतिः कथं वा

रोषं परित्यजतमद्य नयानयज्ञौ ।

द्यूताधिकार मवमानममृष्यमाणाः

सत्वाधिकेषु वचनीयपराक्रमाः स्युः ॥ ११ ॥

</verse>

इति । एष गान्धारराजः,

<verse lang="sa">
अक्षान् क्षिपन् सकितवं प्रहसन् सगर्
वं
सङ्कोचयन्निव मुदं द्विषतां स्वकीर्त्त्या

स्वैरासनो द्रुपदराजसुतां रुदन्तीं

काक्षेण पश्यति लिखत्यभिखां नयज्ञः ॥ १२ ॥

४४५

</verse>

एतावाचार्यपितामहौ तां दृष्ट्वा लज्जायमानौ पटान्तान्तर्हितमुखौं

खौ

</page>