2026-01-20 02:20:24 by akprasad
This page has been fully proofread once and needs a second look.
दूतवाक्ये
<p lang="sa"><speaker>काञ्चुकीयः-</speaker> दूतः प्राप्तः केशवः ।
[i. 5.13_
।
<p lang="sa"><speaker>दुर्योधनः- </speaker>केशव इति । एवमे
१५
भो राजानः ! दौत्येनागतस्य केशवस्य किं युक्तम् । किमाहुर्भवन्तः-
अर्घ्यप्रदानेन पूजयितव्यः केशव इति । न मे रोचते । ग्रहणमस्यात्र
हितं पश्यामि ।
<verse lang="sa">ग्रहणमुपगते तु वासुभद्रे
हृतनयना इव पाण्डवा भवेयुः ।
गतिमतिरहितेषु पाण्डवेषु
श्चि
क्षितिरखिलापि भवेन्ममासपत्ना ॥ ६ ॥
<p lang="sa">अपिच योऽत्र केशवस्य प्रत्युत्थाम्यति, स मया द्वादशसुवर्णभारेण
दण्ड्यः ।
३
नम्योपायः । हन्त दृष्ट उपायः । बादरायण ! आनीयतां स
चित्रपटो ननु,
<stage>( अपवार्य)</stage> तस्मिन् दृष्टिविन्यासं कुर्वन् नोत्थास्यामि केशवस्य ।
६
<p><speaker>काञ्चुकीयः- </speaker>यदाज्ञापयति महाराजः । <speaker>(निष्क्रम्य प्रविश्य) </speaker>जयतु
महाराज: । अयं स चित्रपटः ।
<p lang="sa"><speaker>दुर्योधनः- </speaker>ममाग्रतः प्रसारय ।
९
<p lang="sa"><speaker>काञ्चुकीयः - </speaker>यदाज्ञापयति महाराजः । <stage>( प्रसारयति । )
<p lang="sa"><speaker>दुर्योधनः- </speaker>अहो दर्शनीयोऽयं चित्रपटः । एष दुःशासनो द्रौपदीं
केशहस्ते गृहीतवान् । एषा खलु द्रौपदी,
<verse lang="sa">दुःशासनपरामृष्टा सम्भ्रमोत्फुल्ललोचना ।
राहुवक्त्रान्तरगता चन्द्रलेखेव शोभते ॥ ७ ॥
<p lang="sa">एष दुरात्मा भीमः सर्वराजसमक्षमवमानितां द्रौपदीं दृष्ट्वा प्रवृद्धामर्षः
सभास्तम्भं तुलयति । एष युधिष्ठिरः,
४
</page>