2025-12-29 10:00:52 by ambuda-bot
This page has not been fully proofread.
४४४
दूतवाक्ये
काञ्चुकीयः- दूतः प्राप्तः केशवः ।
[i. 5.13_
। दुर्योधनः- केशव इति । एवमेत्र्यम् । अयमेव समुदाचारः । भो
१५ भो राजानः ! दौत्येनागतस्य केशवस्य किं युक्तम् । किमाहुर्भवन्तः-
अर्घ्यप्रदानेन पूजयितव्यः केशव इति । न मे रोचते । ग्रहणमस्यात्र
हितं पश्यामि ।
ग्रहणमुपगते तु वासुभद्रे
हृतनयना इव पाण्डवा भवेयुः ।
गतिमतिरहितेषु पाण्डवेषु
श्चितिरखिलापि भवेन्ममासपत्ना ॥ ६ ॥
अपिच योऽत्र केशवस्य प्रत्युत्थाम्यति, स मया द्वादशसुवर्णभारेण
दण्ड्यः । तःप्रमत्ता भवन्तु भवन्तः । कोनुखलु ममाप्रत्युत्था-
३ नम्योपायः । हन्त दृष्ट उपायः । बादरायण ! आनीयतां स
चित्रपटो ननु,
यत्र द्रौपदीकेशाम्बरावकर्षणमालिखितम् ।
( अपवार्य) तस्मिन् दृष्टिविन्यासं कुर्वन् नोत्थास्यामि केशवस्य ।
६ काञ्चुकीयः- यदाज्ञापयति महाराजः । (निष्क्रम्य प्रविश्य) जयतु
महाराज: । अयं स चित्रपटः ।
दुर्योधनः- ममाग्रतः प्रसारय ।
९ काञ्चुकीयः - यदाज्ञापयति महाराजः । ( प्रसारयति । )
दुर्योधनः- अहो दर्शनीयोऽयं चित्रपटः । एष दुःशासनो द्रौपदीं
केशहस्ते गृहीतवान् । एषा खलु द्रौपदी,
दुःशासनपरामृष्टा सम्भ्रमोत्फुल्ललोचना ।
राहुवक्त्रान्तरगता चन्द्रलेखेव शोभते ॥ ७ ॥
एष दुरात्मा भीमः सर्वराजसमक्षमवमानितां द्रौपदीं दृष्ट्वा प्रवृद्धामर्षः
सभास्तम्भं तुलयति । एष युधिष्ठिरः,
४