2026-01-20 02:16:27 by akprasad
This page has been fully proofread once and needs a second look.
प्रथमोऽङ्कः ।
४४३
<p lang="sa">वैकर्णवर्षदेवौ! आसातां भवन्तौ । भो भोः सर्वक्षत्रियाः !
१८
स्वैरमासतां भवन्तः । किमिति किमिति महाराजो नास्त इति ।
अहो सेवाधर्मः । नन्वयमहमासे । वयस्य कर्ण ! त्वमप्यास्स्व ।
<stage>( उपविश्य)</stage> आर्यौ वैकर्णवर्षदेवौ! उच्यताम् अस्ति ममैकादशा-
२१
क्षौहिणीबलसमुदयः । अ
किमाहतुर्भवन्तौ -- अत्रभवान् गान्धारराजो वक्ष्यतीति । भवतु,
मातुलेनाभिधीयताम् । किमाह मातुलः - अत्रभवति गाङ्गेये स्थिते
२४
कोऽन्यः सेनापतिर्भवितुमर्हतीति । सम्यगाह मातुलः । भवतु
भवतु, पितामह एव भवतु । वयमप्येतदभिलषामः ।
<verse lang="sa">सेनानिनादपटहस्वनशङ्खना
श्चण्डानिलाहत
गाङ्गेयमूर्ध्नि पतितैरभिषेकतोयैः
सार्धं पतन्तु हृदयानि नराधिपानाम् ॥ ५ ॥
<p lang="sa"><stage>( प्रविश्य )
<p lang="sa"><speaker>काञ्चुकीयः- </speaker>जयतु महाराजः । एष खलु पाण्डव
३
दौत्येनागतः पुरुषोत्तमो नारायणः ।
<p lang="sa"><speaker>दुर्योधनः- </speaker>मा तावद् भो बादरायण ! । किं किं कंसभृत्यो दामोदर-
स्तव पुरुषोत्तमः । स गोपालकस्तव पुरुषोत्तमः । बार्हद्रथापहृतवि-
६ प
षयकीर्तिभोगस्तव पुरुषोत्तमः । अहो पार्थिवासन्नमाश्रितस्य भृत्य-
जनस्य समुदाचारः । सगर्वं खल्वस्य वचनम् । आ अपध्वं
<p><speaker>काञ्चुकीयः- </speaker>प्रसीदतु महाराजः । संभ्रमेण समुदाचारो विस्मृतः ।
९
<stage>( पादयोः पतति । )
<p lang="sa"><speaker>दुर्योधनः- </speaker>संभ्रम इति । आ मनुष्याणामस्त्येव संभ्रमः । उत्तिष्ठोत्तिष्ठ ।
<p><speaker>कान्न्चुकीयः- </speaker>अनुगृहीतोऽस्मि ।
१२
<p lang="sa"><speaker>दुर्योधनः- </speaker>इदानीं प्रसन्नोऽस्मि । क एष दूतः प्राप्तः ।
३
'
</page>