This page has been fully proofread once and needs a second look.

४४२

दूतवाक्ये

<page>
<verse lang="sa">
श्यामो युवा सितदुकूलकृतोत्तरीयः

सच्च्छत्रचामरवरो रचिताङ्गरागः ।

श्रीमान् विभूषणमणिद्युतिरञ्जिताङ्गो

नक्षत्रमध्य इव पर्वगतः शशाङ्कः ॥ ३ ॥
</verse>

<stage>
( ततः प्रविशति यथानिर्दिष्टो दुर्योधनः । )
</stage>

<verse><speaker>
दुर्योधनः- </speaker>उद्भूतरोषमिव मे हृदयं सहर्षं

प्राप्तं रणोत्सवमिमं सहसा विचिन्त्य ।

इच्छामि पाण्डवबले वरणारणाना-

मुत्कृत्तदन्तमुसलानि मुखानि कर्तुम् ॥ ४ ॥

[ i. 3. -

</verse>

<speaker>
काञ्चुकीयः- </speaker>जयतु महाराजः । महाराजशासनात् समानीतं सर्व-

राजमण्डलम् ।

<speaker>
दुर्योधनः–</speaker>सम्यक् कृतम् । प्रविश त्वमवरोधनम् ।

<speaker>
कान्चुकीयः- </speaker>यदाज्ञापयति महाराजः ।<stage> (निष्क्रान्तः । )

</stage>

<speaker>
दुर्योधनः- </speaker>आर्यौ वैकर्णवर्षदेवौ! उच्यताम् --अस्ति ममैकादशाक्षी-
षौ-
हिणीबलसमुदयः । अस्य कः सेनापतिर्भवितुमर्हति । किं किमाह-

तुर्भवन्ती -- महान खल्वयमर्थः । मन्त्रयित्वा वक्तव्यमिति ।

सदृशमेतत् । तदागम्यतां मन्त्रशालामेव प्रविशामः । आचार्य

अभिवादये । प्रविशतु भवान् मन्त्रशालाम् । पितामह ! अभिवा-

दये । प्रविशतु भवान् मन्त्रशालाम् । मातुल ! अभिवादये ।

प्रविशतु भवान् मन्त्रशालाम् । आर्यौ वैकर्णवर्षदेवौ! प्रविशतां
१२

भवन्तौ । भो भोः सर्वक्षत्रियाः ! स्वैरं प्रविशन्तु भवन्तः । वयस्य !

कर्ण ! प्रविशामस्तावत् ।

<stage>
(प्रविश्य)

१५
</stage>

आचार्य ! एतत् कूर्मासनम्, आस्यताम् । पितामह ! एतत् सिंहा-

सनम्, आस्यताम् । मातुल ! एतच्चर्मासनम्, आस्यताम् । आ

र्यौ

</page>