2025-12-29 10:00:52 by ambuda-bot
This page has not been fully proofread.
४४२
दूतवाक्ये
श्यामो युवा सितदुकूलकृतोत्तरीयः
सच्च्छत्रचामरवरो रचिताङ्गरागः ।
श्रीमान् विभूषणमणिद्युतिरञ्जिताङ्गो
नक्षत्रमध्य इव पर्वगतः शशाङ्कः ॥ ३ ॥
( ततः प्रविशति यथानिर्दिष्टो दुर्योधनः । )
दुर्योधनः- उद्भूतरोषमिव मे हृदयं सहर्षं
प्राप्तं रणोत्सवमिमं सहसा विचिन्त्य ।
इच्छामि पाण्डवबले वरणारणाना-
मुत्कृत्तदन्तमुसलानि मुखानि कर्तुम् ॥ ४ ॥
[ i. 3. -
काञ्चुकीयः- जयतु महाराजः । महाराजशासनात् समानीतं सर्व-
राजमण्डलम् ।
३ दुर्योधनः–सम्यक् कृतम् । प्रविश त्वमवरोधनम् ।
• कान्चुकीयः- यदाज्ञापयति महाराजः । (निष्क्रान्तः । )
दुर्योधनः- आर्यौ वैकर्णवर्षदेवौ! उच्यताम् अस्ति ममैकादशाक्षी-
६ हिणीबलसमुदयः । अस्य कः सेनापतिर्भवितुमर्हति । किं किमाह-
तुर्भवन्ती - महान खल्वयमर्थः । मन्त्रयित्वा वक्तव्यमिति ।
सदृशमेतत् । तदागम्यतां मन्त्रशालामेव प्रविशामः । आचार्य
९ अभिवादये । प्रविशतु भवान् मन्त्रशालाम् । पितामह ! अभिवा-
दये । प्रविशतु भवान् मन्त्रशालाम् । मातुल ! अभिवादये ।
प्रविशतु भवान् मन्त्रशालाम् । आर्यौ वैकर्णवर्षदेवौ! प्रविशतां
१२ भवन्तौ । भो भोः सर्वक्षत्रियाः ! स्वैरं प्रविशन्तु भवन्तः । वयस्य !
कर्ण ! प्रविशामस्तावत् ।
(प्रविश्य)
१५ आचार्य ! एतत् कूर्मासनम्, आस्यताम् । पितामह ! एतत् सिंहा-
सनम्, आस्यताम् । मातुल ! एतच्चर्मासनम्, आस्यताम् । आय
२