2026-01-20 04:51:16 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<subtitle lang="sa">॥ श्रीः ॥</subtitle>
<subtitle lang="sa">भासनाटकचके</subtitle>
<stage>( नान्द्यन्ते ततः प्रविशति सूत्रधारः । )</stage>
<verse n="1" lang="sa"><speaker>सूत्रधारः-</speaker>
पादः पायादुपेन्द्रस्य सर्वलोकोत्सवः स वः ।
व्याविद्धो नमुचिर्येन तनुताम्रनखेन खे ॥ १ ॥</verse>
एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यग्रे
शब्द इव श्रूयते । अङ्ग ! पश्यामि ।
<stage>( नेपथ्य )</stage>
भो भोः प्रतिहाराधिकृताः ! महाराजो दुर्योधनः समाज्ञापयति ।
<speaker>सूत्रधारः - </speaker>भवतु, विज्ञातम् ।
<verse lang="sa">उत्पन्ने धार्तराष्ट्राणां विरोधे पाण्डवैः सह ।
मन्त्रशालां रचयति भृत्यो दुर्योधनाज्ञया ॥ २ ॥</verse>
<stage>( निष्क्रान्तः । )</stage>
<trailer lang="sa">स्थापना ।</trailer>
<stage>( ततः प्रविशति काञ्चुकीयः )</stage>
<speaker>काञ्चुकीयः- </speaker>भो भोः प्रतिहाराधिकृताः ! महाराजो दुर्योधनः समा-
ज्ञापयति--अद्य सर्वपार्थिवैः सह मन्त्रयितुमिच्छामि । तदा-
हूयतां सर्वे राजान इति । <stage>( परिक्रम्यावलोक्य)</stage> अये अयं महाराजो
दुर्योधन इत एवाभिवर्तते । य एषः,
</page>