This page has not been fully proofread.

सूत्रधारः-
 
॥ श्रीः ॥
 
भासनाटकचके
 
दूतवाक्यम् ।
 
(नान्द्यन्ते ततः प्रविशति सूत्रधारः । )
 
पादः पायादुपेन्द्रस्य सर्वलोकोत्सवः स वः ।
 
व्याविद्धो नमुचिर्येन तनुताम्रनखेन खे ॥ १ ॥
 
एवमार्यमिश्रान विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यग्रे
शब्द इव श्रूयते । अङ्ग ! पश्यामि ।
 
( नेपथ्य )
 
भो भोः प्रतिहाराधिकृताः ! महाराजो दुर्योधनः समाज्ञापयति ।
सूत्रधारः - भवतु, विज्ञातम् ।
 
उत्पन्ने धार्तराष्ट्राणां विरोधे पाण्डवैः सह ।
मन्त्रशालां रचयति भृत्यो दुर्योधनाज्ञया ॥ २ ॥
( निष्क्रान्तः । )
 
स्थापना ।
 
( ततः प्रविशति काञ्चुकीयः )
 
काञ्चुकीयः- भो भोः प्रतिहाराधिकृताः ! महाराजो दुर्योधनः समा-
३ ज्ञापयति--अद्य सर्वपार्थिवैः सह मन्त्रयितुमिच्छामि । तदा-
तां सर्वे राजान इति । ( परिक्रम्यावलोक्य) अये अयं महाराजो
दुर्योधन इत एवाभिवर्तते । य एषः,
 
दूत. २५