This page has been fully proofread once and needs a second look.

४३८

मध्यमव्यायोगे

[ 1.50.10

<page>

<speaker>
वृद्धः -</speaker> पितृसदृशगुणकीर्तिर्भव ।

<speaker>
घटोत्कचः -</speaker> अनुगृहीतोऽस्मि ।

१२

<speaker>
वृद्धः–</speaker>भो वृकोदर ! रक्षितमस्मत्कुलं, स्वकुलमुद्धृतं च । गच्छाम -

स्तावत् ।

<speaker>
भीमः --

</speaker>

<verse lang="sa">
अनुग्रहात्तु भवतः सर्वमासीदिदं शुभम् ।

आश्रमोऽदूरतोऽस्माकं तत्र विश्रम्य गम्यताम् ॥ ५१ ॥

</verse>

<speaker>
वृद्धः - </speaker>कृतमातिथ्यमनेन जीवितप्रदानेन । तस्माद्गच्छामस्तावत् ।

<speaker>
भीमः-</speaker> गच्छतु भवान् सकुटुम्बः पुनर्दर्शनाय ।

<speaker>
वृद्धः-</speaker> बाढम् । प्रथमः कल्पः । <stage>(सपुत्रत्रयकलत्रीरो निष्क्रान्तः केशवदासः। )
</stage>

<speaker>
भीमः -</speaker> हिडिम्बे ! इतस्तावत् । वत्स घटोत्कच ! इतस्तावत् । तत्र-

भवन्तं केशवदासं आश्रमपदद्वारमात्रमपि संभावयिष्यामः ।

<verse lang="sa">
यथा नदीनां प्रभवः समुद्रो

यथाहुतीनां प्रभवो हुताशनः ।

यथेन्द्रियाणां प्रभवं मनोऽपि

तथा प्रभुर्नो भगवानुपेन्द्रः ॥ ५२ ॥
</verse>

<stage>
( निष्क्रान्ताः सर्वे । )

</stage>

<trailer lang="sa">
॥ मध्यमव्यायोगं नाम नाटकं समाप्तम् ॥

१८

</trailer>
</page>