2025-12-29 10:00:51 by ambuda-bot
This page has not been fully proofread.
४३८
मध्यमव्यायोगे
[ 1.50.10
वृद्धः - पितृसदृशगुणकीर्तिर्भव ।
घटोत्कचः - अनुगृहीतोऽस्मि ।
१२ वृद्धः–भो वृकोदर ! रक्षितमस्मत्कुलं, स्वकुलमुद्धृतं च । गच्छाम -
स्तावत् ।
भीमः --
अनुग्रहात्तु भवतः सर्वमासीदिदं शुभम् ।
आश्रमोऽदूरतोऽस्माकं तत्र विश्रम्य गम्यताम् ॥ ५१ ॥
वृद्धः - कृतमातिथ्यमनेन जीवितप्रदानेन । तस्माद्गच्छामस्तावत् ।
भीमः- गच्छतु भवान् सकुटुम्बः पुनर्दर्शनाय ।
३ वृद्धः- बाढम् । प्रथमः कल्पः । (सपुत्रत्रयकलत्री निष्क्रान्तः केशवदासः। )
भीमः - हिडिम्बे ! इतस्तावत् । वत्स घटोत्कच ! इतस्तावत् । तत्र-
भवन्तं केशवदास आश्रमपदद्वारमात्रमपि संभावयिष्यामः ।
यथा नदीनां प्रभवः समुद्रो
यथाहुतीनां प्रभवो हुताशनः ।
यथेन्द्रियाणां प्रभवं मनोऽपि
तथा प्रभुर्नो भगवानुपेन्द्रः ॥ ५२ ॥
( निष्क्रान्ताः सर्वे । )
॥ मध्यमव्यायोगं नाम नाटकं समाप्तम् ॥
१८