2026-01-21 13:49:13 by akprasad
This page has been fully proofread once and needs a second look.
प्रथमोऽङ्कः ।
४२९
<p lang="sa"><speaker>भीमः - </speaker>भोः ! कोनु खल्वेतस्मिन्वनान्तरे मम व्यायामवि
मध्यम इति मां शब्दापयति । भवतु पश्यामस्तावत् ।<stage> ( परिक्रम्या-
६
वलोक्य सविस्मयं )</stage> अहो दर्शनीयोऽयं पुरुषः । अयं हि,
<verse lang="sa">सिंहास्यः सिं
बभ्रुभ्रुः श्येननासो द्विरदपतिहनु
व्यूढोरा वज्रमध्यो गजवृषभगति
सुव्यक्तं राक्षसीजो विपुलबलयुतो लोकवीरस्य पुत्रः ॥२६॥
<p lang="sa"><speaker>घटोत्कचः -</speaker> चिरायते खलु ब्राह्मणबटुः ।
भो भो मध्यम ! शीघ्रमागच्छ ।
३
<p lang="sa"><speaker>भीमः -</speaker> भोः ! प्राप्तोऽस्मि ।
उच्चैः शब्दापयामि ।
<p lang="sa"><speaker>घटोत्कचः-</speaker>न
ए
<verse lang="sa">सिंहाकृतिः कनकतालसमानबाहुः
मध्ये तनुर्गरुडपक्षविलिप्
विष्णुर्भवेद्विकसिताम्बुजपत्रनेत्
नेत्रे ममाहरति बन्धुरिवागतोऽयम् ॥ २७ ॥
<p>भो मध्यम ! त्वां खल्वहं शब्दपयामि ।
<p lang="sa"><speaker>भीमः -</speaker> अतः खल्वहं प्राप्तः ।
<p lang="sa"><speaker>घटोत्कचः -</speaker> किं भवानपि मध्यमः ।
<p lang="sa"><speaker>भीमः -</speaker> न तावदपरः ।
<verse lang="sa">मध्यमो ऽहमवध्यानामुत्सिक्तानां च मध्यमः ।
मध्यमोऽहं क्षितौ भद्र भ्रातॄणामपि मध्यमः ॥ २८ ॥
<p lang="sa"><speaker>घटोत्कचः -</speaker> भवितव्यम् ।
<footnote mark="१
<footnote mark="२
</page>