This page has not been fully proofread.

-i. 28.1
 
प्रथमोऽङ्कः ।
 
४२९
 
भीमः - भोः ! कोनु खल्वेतस्मिन्वनान्तरे मम व्यायामविन्नमुत्पाद्य
मध्यम इति मां शब्दापयति । भवतु पश्यामस्तावत् । ( परिक्रम्या-
६ वलोक्य सविस्मयं ) अहो दर्शनीयोऽयं पुरुषः । अयं हि,
 
सिंहास्यः सिंहो मधुनिभनयनः स्निग्धगम्भीरकण्ठो
बभ्रुः श्येननासो द्विरदपतिहनु दीप्तेविष्टिकेशः ।
व्यूढोरा वज्रमध्यो गजवृषभगतिलँबपीनांसबाहुः
सुव्यक्तं राक्षसीजो विपुलबलयुतो लोकवीरस्य पुत्रः॥२६॥
 
घटोत्कचः - चिरायते खलु ब्राह्मणबटुः ।
 
भो भो मध्यम ! शीघ्रमागच्छ ।
 
३ भीमः - भोः ! प्राप्तोऽस्मि ।
 
उच्चैः शब्दापयामि ।
 
घटोत्कचः-न ग्वल्वयं ब्राह्मणबटुः । अहो दर्शनीयोऽयं पुरुषः । य
 
एप:-
 
सिंहाकृतिः कनकतालसमानबाहुः
 
मध्ये तनुर्गरुडपक्षविलिप्र पक्षः ।
विष्णुर्भवेद्विकसिताम्बुजपत्रनेत्री
 
नेत्रे ममाहरति बन्धुरिवागतोऽयम् ॥ २७ ॥
भो मध्यम ! त्वां खल्वहं शब्दपयामि ।
 
भीमः - अतः खल्वहं प्राप्तः ।
 
घटोत्कचः - किं भवानपि मध्यमः ।
 
भीमः - न तावदपरः ।
 
मध्यमो ऽहमवध्यानामुत्सिक्तानां च मध्यमः ।
मध्यमोऽहं क्षितौ भद्र भ्रातॄणामपि मध्यमः ॥ २८ ॥
 
घटोत्कचः - भवितव्यम् ।
 
१. दीर्घ० । २. विलिप्तवक्षाः ।