This page has been fully proofread once and needs a second look.

i. 23.1 ]

<page>

<speaker>
वृद्धः -</speaker> एह्येहि

पुत्र 1

प्रथमोऽङ्कः ।

<verse lang="sa">
विनिमाय गुरुप्राणान् स्वैः प्राणैर्गुरुवत्सल ।

अकृतात्मदुरावापं ब्रह्मलोकमवाप्नुहि ॥ २१ ॥
</verse>

<speaker>
द्वितीयः - </speaker>अनुगृहीतोऽस्मि । अम्ब ! अभिवादये ।

ब्राह्मणी - जाद ! चिरं जीव । <chaya>[ जात ! चिरं जीव । ]
</chaya>

<speaker>
द्वितीयः- </speaker>अनुगृहीतोऽस्मि । आर्य ! अभिवादये ।

<speaker>
प्रथम :-

मः-</speaker> एह्येहि वत्स ।

<verse lang="sa">
परिष्वजस्य गाढं मां परिष्वक्तः शुभैर्गुणैः ।

कीर्त्या तव परिष्वक्ता भविष्यति वसुन्धरा ॥ २२ ॥

</verse>

<speaker>
द्वितीयः -</speaker> अनुगृहीतोऽस्मि ।

<speaker>
तृतीय : - यः - </speaker>आर्य ! अभिवादये ।

<speaker>
द्वितीय:-</speaker> स्वस्ति ।

<speaker>
तृतीय:-</speaker> अनुगृहीतोऽस्मि ।

<speaker>
द्वितीयः -</speaker> भोः पुरुष ! किंचिद्ब्रवीमि ।

<speaker>
घटोत्कचः -</speaker> ब्रूहि ब्रूहि शीघ्रम् ।

४२७

<speaker>
द्वितीयः -</speaker> एतस्मिन्वनान्तरे जलाशय इव दृश्यते । तत्र मे प्रकल्पित-

परलोकस्य पिपासाप्रतीकारं करिष्यामि ।

<speaker>
घटोत्कचः -</speaker> दृढव्यवसायिन् ! गम्यताम् । अतिक्रामति मातुराहार-

कालः । शीघ्रमागच्छ ।

<speaker>
द्वितीयः - </speaker>भोस्तात ! एष गच्छामि । <stage>(निष्क्रान्तः । )
१२
</stage>

<speaker>
वृद्ध: -</speaker> हा हा परिमुषिताः स्मो भोः ! परिमुषिताः स्मः ।

<verse>यस्
त्रिशृंगो मम त्वासीन्मनोज्ञो वंशपर्वतः ।

स मध्यशृंगभङ्गेन मनस्तपति मे भृशम् ॥ २३ ॥
</verse>

हा पुत्रक ! कथं गत एव ।

</page>