This page has been fully proofread once and needs a second look.

-i. 15.7]

प्रथमोऽङ्कः ।

४२५

१५
<page>

<speaker>
घटोत्कचः - </speaker>मोक्षोऽस्ति समयतः ।

<speaker>
वृद्धः - </speaker>कः समयः ।

<speaker>
घटोत्कचः - </speaker>म्स्ति मे तत्रभवती जननी । तयाहमाज्ञप्तः । पुत्र !
१८

ममोपवासनिसर्गार्थमस्मिन्वनप्रदेशे कश्चिन्मानुषः प्रतिगृह्या<ref>१</ref>नेतव्य

इति । ततो मयासादितो भवान् ।

<verse lang="sa">
पन्या चारित्रशालिन्या द्विपुत्रो मोक्षमिच्छसि ।

बलाबलं परिज्ञाय पुत्रमेकं विसर्जय ॥ १२ ॥

</verse>

<speaker>
वृद्ध : - </speaker>हं भो राक्षसापसद ! किमहमब्राह्मणः ।

<verse>
ब्रा<ref>२</ref>ह्मणः श्रुतवान्वृद्धः पुत्रं शीलगुणान्वितम् ।

पुरुषादस्य दत्वाहं कथं निर्वृतिमाप्नुयाम् ॥ १३ ॥

</verse>

<speaker>
घटोत्कच:-

</speaker>

<verse lang="sa">
यद्यर्थितो द्विजश्रेष्ठ ! पुत्रमेकं न मुञ्चसि ।

कुटुम्बः क्षणेनैव विनाशमुपापयास्यसि ॥ १४ ॥

</verse>

<speaker>
वृद्ध: -</speaker> एष एव मे निश्चयः ।

<verse lang="sa">
कृतकृत्यं शरीरं मे परिणामेन जर्जरम् ।

राक्षसाग्नौ सुतापेक्षी होण्यामि विधिसंस्कृतम् ॥ १५ ॥

</verse>

<speaker>
ब्राह्मणी- </speaker>अय्य! मा मा एवं । पदिमत्तधम्मिणी पदिव्वदत्ति गाम ।
णाम ।
गहीदफळेण एदिणा सरीरेण अय्यं कुळं च रक्खिदुमिच्छामि !

<chaya>
[आर्य, मा मैत्रम् । पतिमात्रधर्मिणी पतिव्रतेति नाम । गृहीतफलेनैतेन

शरीरेणार्यं कुलं च रक्षितुमिच्छामि । ]

</chaya>

<speaker>
घटोत्कचः -</speaker> भवति ! न खलु स्त्रीजनोऽभिमतस्तत्रभवत्या ? ।

<speaker>
वृद्धः -</speaker> अनुगमिष्यामि भवन्तम् ।

<speaker>
घटोत्कचः -</speaker> आः वृद्धस्त्वमपसर ।

<footnote mark="
. " lang="sa">परिमृग्या° । </footnote>
<footnote mark="
. ">किमहं श्रुतवान् ।

मध्य. २४

1

</footnote>
</page>