This page has not been fully proofread.

-i. 15.7]
 
प्रथमोऽङ्कः ।
 
४२५
 
१५ घटोत्कचः - मोक्षोऽस्ति समयतः ।
 
वृद्धः - कः समयः ।
 
घटोत्कचः - अम्ति मे तत्रभवती जननी । तयाहमाज्ञप्तः । पुत्र !
१८ ममोपवासनिसर्गार्थमस्मिन्वनप्रदेशे कश्चिन्मानुषः प्रतिगृह्यानेतव्य
इति । ततो मयासादितो भवान् ।
 
पन्या चारित्रशालिन्या द्विपुत्रो मोक्षमिच्छसि ।
बलाबलं परिज्ञाय पुत्रमेकं विसर्जय ॥ १२ ॥
 
वृद्ध : - हं भो राक्षसापसद ! किमहमब्राह्मणः ।
ब्राह्मणः श्रुतवान्वृद्धः पुत्रं शीलगुणान्वितम् ।
पुरुषादस्य दत्वाहं कथं निर्वृतिमाप्नुयाम् ॥ १३ ॥
 
घटोत्कच:-
 
यद्यर्थितो द्विजश्रेष्ठ ! पुत्रमेकं न मुञ्चसि ।
मकुटुम्बः क्षणेनैव विनाशमुपास्यसि ॥ १४ ॥
 
वृद्ध: - एष एव मे निश्चयः ।
 
कृतकृत्यं शरीरं मे परिणामेन जर्जरम् ।
 
राक्षसाग्नौ सुतापेक्षी होण्यामि विधिसंस्कृतम् ॥ १५ ॥
 
ब्राह्मणी- अय्य! मा मा एवं । पदिमत्तधम्मिणी पदिव्वदत्ति गाम ।
गहीदफळेण एदिणा सरीरेण अय्यं कुळं च रक्खिदुमिच्छामि !
३ [आर्य, मा मैत्रम् । पतिमात्रधर्मिणी पतिव्रतेति नाम । गृहीतफलेनैतेन
शरीरेणार्यं कुलं च रक्षितुमिच्छामि । ]
 
घटोत्कचः - भवति ! न खलु स्त्रीजनोऽभिमतस्तत्रभवत्या ? ।
६ वृद्धः - अनुगमिष्यामि भवन्तम् ।
 
घटोत्कचः - आः वृद्धस्त्वमपसर ।
 
१. परिमृग्या° । २. किमहं श्रुतवान् ।
 
मध्य. २४
 
1