2026-01-21 13:28:32 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore lang="sa">४२४
</ignore>
<ignore lang="sa">मध्यमव्यायोगे
</ignore>
<ignore lang="sa">[i. 10--
</ignore>
<verse lang="sa">इदं हि शून्यं तिमिरोत्करप्रभैर्नगप्रकारैरवरुद्धदिक्पथम् ।
खगैर्मृगैश्चापि समाकुलान्तरं वनं निवासाभिमतं मनस्विनाम् ॥१०॥
</verse>

<speaker>वृद्धः - </speaker>ब्राह्मणि ! न भेतव्यं, न भेतव्यम् । मनस्विजन निवास-
योग्यमिति श्रुत्वा विगत इव मे संत्रासः । शङ्के नातिदू<ref>१</ref>रेण
३
पाण्डवाश्रमेण भवितव्यं । पाण्डवास्तु,

<verse lang="sa">युद्धप्रियाश्च शरणागतवत्सलाच
दीनेषु पक्षपतिताः कृतसाहसाश्च ।
एवंविधप्रतिभयाकृतिचेष्टितानां
दण्डं यथार्हमिह धारयितुं समर्थाः ॥ ११ ॥
</verse>

<speaker>प्रथमः-- </speaker>भोस्तात ! न तत्र पाण्डवा इति मन्ये ।

<speaker>वृद्ध: -</speaker> कथं त्वं जानीषे ।
३

<speaker>प्रथमः- </speaker>श्रुतं मया तस्मादागच्छता केनचिद्ब्राह्मणे<ref>३</ref>न शतकुम्भं नाम
यज्ञमनुभवितुं महर्षेर्धौम्यस्याश्रमं गता इति ।

<speaker>वृद्ध: -</speaker> हन्त हताः स्मः ।
६

प्र<speaker>थमः-</speaker> तात ! न तु सर्व एव । आश्रमपरिपालनार्थमिह स्थापितः
किल मध्यमः ।

<speaker>वृद्धः -</speaker> यद्येवं सन्निहिताः सर्वे पाण्डवाः ।
९

<speaker>प्रथमः - </speaker>स चाप्यस्यां वेलायां व्यायामपरिचयार्थं विप्रकृष्टदेशस्थ
इति श्रूयते ।

<speaker>वृद्धः-</speaker>हन्त निराशाः स्मः । भवतु पुत्र व्यपा<ref>२</ref>श्रयिष्ये तावदेनम् ।
१२

<speaker>प्रथमः- </speaker>अलमलं परिश्रमेण ।

<speaker>वृद्धः-</speaker>पुत्र ! निर्वेदप्रत्यार्थिनी खलु प्रार्थना । भवतु पश्यामस्तावत् ।
भो भोः पुरुष ! अस्त्यस्माकं मोक्षः ।

<footnote mark="१. " lang="sa">नात्रातिदूरेण । </footnote>
<footnote mark="२. ">व्यपश्रयिष्ये । </footnote>
<footnote mark="३. '">'कथितं '' इति विवक्षितं भाति ।
४
</footnote>
</page>
<ignore lang="sa">४२४
<ignore lang="sa">मध्यमव्यायोगे
<ignore lang="sa">[i. 10--
<verse lang="sa">इदं हि शून्यं तिमिरोत्करप्रभैर्नगप्रकारैरवरुद्धदिक्पथम् ।
खगैर्मृगैश्चापि समाकुलान्तरं वनं निवासाभिमतं मनस्विनाम् ॥१०॥

<speaker>वृद्धः - </speaker>ब्राह्मणि ! न भेतव्यं, न भेतव्यम् । मनस्विजन
योग्यमिति श्रुत्वा विगत इव मे संत्रासः । शङ्के नातिदू<ref>१</ref>रेण
३
पाण्डवाश्रमेण भवितव्यं । पाण्डवास्तु,
<verse lang="sa">युद्धप्रियाश्च शरणागतवत्सलाच
दीनेषु पक्षपतिताः कृतसाहसाश्च ।
एवंविधप्रतिभयाकृतिचेष्टितानां
दण्डं यथार्हमिह धारयितुं समर्थाः ॥ ११ ॥

<speaker>प्रथमः-

<speaker>वृद्ध: -</speaker> कथं त्वं जानीषे ।
३

<speaker>प्रथमः- </speaker>श्रुतं मया तस्मादागच्छता केनचिद्ब्राह्मणे<ref>३</ref>न शतकुम्भं नाम
यज्ञमनुभवितुं महर्षेर्धौम्यस्याश्रमं गता इति ।

<speaker>वृद्ध: -</speaker> हन्त हताः स्मः ।
६

प्र<speaker>थमः-</speaker> तात ! न तु सर्व एव । आश्रमपरिपालनार्थमिह स्थापितः
किल मध्यमः ।

<speaker>वृद्धः -</speaker> यद्येवं सन्निहिताः सर्वे पाण्डवाः ।
९

<speaker>प्रथमः
इति श्रूयते ।

<speaker>वृद्धः-</speaker>हन्त निराशाः स्मः । भवतु पुत्र व्यपा<ref>२</ref>श्रयिष्ये तावदेनम् ।
१२

<speaker>प्रथमः- </speaker>अलमलं परिश्रमेण ।

<speaker>वृद्धः-</speaker>पुत्र ! निर्वेदप्रत्यार्थिनी खलु प्रार्थना । भवतु पश्यामस्तावत् ।
भो भोः पुरुष ! अस्त्यस्माकं मोक्षः ।
<footnote mark="१
<footnote mark="२
<footnote mark="३
४
</page>