2025-12-29 10:00:50 by ambuda-bot
This page has not been fully proofread.
४२४
मध्यमव्यायोगे
[i. 10--
इदं हि शून्यं तिमिरोत्करप्रभैर्नगप्रकारैरवरुद्धदिक्पथम् ।
खगैर्मृगैश्चापि समाकुलान्तरं वनं निवासाभिमतं मनस्विनाम् ॥१०॥
वृद्धः - ब्राह्मणि ! न भेतव्यं, न भेतव्यम् । मनस्विजन निवास-
योग्यमिति श्रुत्वा विगत इव मे संत्रासः । शङ्के नातिदूरेण
३ पाण्डवाश्रमेण भवितव्यं । पाण्डवास्तु,
युद्धप्रियाश्च शरणागतवत्सलाच
दीनेषु पक्षपतिताः कृतसाहसाश्च ।
एवंविधप्रतिभयाकृतिचेष्टितानां
दण्डं यथार्हमिह धारयितुं समर्थाः ॥ ११ ॥
प्रथमः- - भोस्तात ! न तत्र पाण्डवा इति मन्ये ।
वृद्ध: - कथं त्वं जानीषे ।
३ प्रथमः- श्रुतं मया तस्मादागच्छता केनचिद्ब्राह्मणेन शतकुम्भं नाम
यज्ञमनुभवितुं महर्षेर्धौम्यस्याश्रमं गता इति ।
वृद्ध: - हन्त हताः स्मः ।
६ प्रथमः- तात ! न तु सर्व एव । आश्रमपरिपालनार्थमिह स्थापितः
किल मध्यमः ।
वृद्धः - यद्येवं सन्निहिताः सर्वे पाण्डवाः ।
९ प्रथमः स चाप्यस्यां वेलायां व्यायामपरिचयार्थं विप्रकृष्टदेशस्थ
इति श्रूयते ।
वृद्धः-हन्त निराशाः स्मः । भवतु पुत्र व्यपाश्रयिष्ये तावदेनम् ।
१२ प्रथमः- अलमलं परिश्रमेण ।
वृद्धः-पुत्र ! निर्वेदप्रत्यार्थिनी खलु प्रार्थना । भवतु पश्यामस्तावत् ।
भो भोः पुरुष ! अस्त्यस्माकं मोक्षः ।
१. नात्रातिदूरेण । २. व्यपश्रयिष्ये । ३. 'कथितं ' इति विवक्षितं भाति ।
४