This page has been fully proofread once and needs a second look.

―i. 9.]

प्रथमोऽङ्कः ।

४२३

<page>
<verse lang="sa">
वज्रपातोऽचले<ref>१</ref>न्द्राणां श्येनः सर्वपतत्रिणाम् ।

मृगेन्द्रो मृगसंघानां मृत्युः पुरुविग्रहः ॥ ७ ॥

</verse>

<speaker>
ब्राह्मणी- </speaker>अय्य को एसो अम्हाअं सन्दावेइ । <chaya>[ आर्य ! क एषोऽ-

स्मान् सन्तापयति । ]

</chaya>

<speaker>
घटोत्कचः -</speaker> भो ब्राह्मण ! तिष्ठ तिष्ठ ।

<verse lang="sa">
किं यासि मद्भयविनाशित धैर्यसारो

वित्रस्तदार सुतरक्षणहीनशक्ते ! ।

तार्क्ष्याग्ग्र्यपक्षपवनोद्धत रोवह्नि-

तीव्रः कलत्रसहितो भुजगो यथार्तः ॥ ८ ॥

</verse>

भो ब्राह्मण ! न गन्तव्यं न गन्तव्यम् ।

<speaker>
वृद्ध: - </speaker>ब्राह्मणि ! न भेतव्यम् । पुत्रकाः न भेतव्यम् । सविमर्शा

ह्यस्य वाणी ।

<speaker>
घटोत्कचः -</speaker> भोः ! कष्टम् ।

<verse lang="sa">
जानामि सर्वत्र सदा च नाम द्विजोत्तमाः पूज्यतमाः पृथिव्याम् ।

अकार्यमेतश्च मयाद्य कार्यं मातुर्नियोगादपनीय <ref>२</ref>शङ्काम् ॥ ९ ॥
</verse>

<speaker>
वृद्ध: - धः - </speaker>ब्राह्मणि ! किं न स्मरसि तत्रभवता जलक्लिन्नेन मुनिनोक्तं-

अनपेतराक्षसमिदं वनमप्रमादेन गन्तव्यमिति । तदेवोत्पन्नं भयम् ।

<speaker>
ब्राह्मणी - </speaker>किं दाणि अय्यो मज्झत्थवण्णो विअ दिस्सदि । <chaya>[ कि-

मिदानीमार्यो मध्यस्थवर्ण इव दृश्यते । ]

</chaya>

<speaker>
वृद्ध :-धः-</speaker> किं करिष्यामि मन्दभाग्यः ।

<speaker>
ब्राह्मणी -</speaker> णं विक्कोसामो ।<chaya> [ ननु विक्रोशामः । ]
</chaya>

<speaker>
प्रथमः- </speaker>भवति कस्य वयं विक्रोशामः ।

<footnote mark="
. " lang="sa">भुजङ्गानाम् । </footnote>
<footnote mark="
. ">अपनीतशङ्कम् ।

</footnote>
</page>