2025-12-29 10:00:50 by ambuda-bot
This page has not been fully proofread.
―i. 9.]
प्रथमोऽङ्कः ।
४२३
वज्रपातोऽचलेन्द्राणां श्येनः सर्वपतत्रिणाम् ।
मृगेन्द्रो मृगसंघानां मृत्युः पुरुपविग्रहः ॥ ७ ॥
ब्राह्मणी- अय्य को एसो अम्हाअं सन्दावेइ । [ आर्य ! क एषोऽ-
स्मान् सन्तापयति । ]
३ घटोत्कचः - भो ब्राह्मण ! तिष्ठ तिष्ठ ।
किं यासि मद्भयविनाशित धैर्यसारो
वित्रस्तदार सुतरक्षणहीनशक्ते ! ।
ताक्ष्यग्ग्यपक्षपवनोद्धत रोपवह्नि-
तीव्रः कलत्रसहितो भुजगो यथार्तः ॥ ८ ॥
भो ब्राह्मण ! न गन्तव्यं न गन्तव्यम् ।
वृद्ध: - ब्राह्मणि ! न भेतव्यम् । पुत्रकाः न भेतव्यम् । सविमर्शा
३ ह्यस्य वाणी ।
घटोत्कचः - भोः ! कष्टम् ।
जानामि सर्वत्र सदा च नाम द्विजोत्तमाः पूज्यतमाः पृथिव्याम् ।
अकार्यमेतश्च मयाद्य कार्यं मातुर्नियोगादपनीय शङ्काम् ॥ ९ ॥
वृद्ध: - ब्राह्मणि ! किं न स्मरसि तत्रभवता जलक्लिन्नेन मुनिनोक्तं-
अनपेतराक्षसमिदं वनमप्रमादेन गन्तव्यमिति । तदेवोत्पन्नं भयम् ।
३ ब्राह्मणी - किं दाणि अय्यो मज्झत्थवण्णो विअ दिस्सदि । [ कि-
मिदानीमार्यो मध्यस्थवर्ण इव दृश्यते । ]
वृद्ध :- किं करिष्यामि मन्दभाग्यः ।
६ ब्राह्मणी - णं विक्कोसामो । [ ननु विक्रोशामः । ]
प्रथमः- भवति कस्य वयं विक्रोशामः ।
१. भुजङ्गानाम् । २. अपनीतशङ्कम् ।