This page has been fully proofread once and needs a second look.
<page>
<subtitle lang="sa">॥ श्रीः ॥</subtitle>
<subtitle lang="sa">भासनाटकचकेक्रे</subtitle>
<stage>( नान्द्यन्ते ततः प्रविशति सूत्रधारः । )</stage>
<speaker>सूत्रधारः -</speaker>
<verse lang="sa">पायात्स वोऽसुरवधूहृदयावसादः
पादो हरेः कुवलयामलखङ्ड्गनीलः ।
यः प्रोद्यतस्त्रिभुवन<ref>१</ref>क्रमणे रराज
वैडूर्यसंक्रम इवाम्बरसागरस्य ॥ १ ॥</verse>
एवमार्यमिश्रान्त्रिज्ञापयामि । अये किंनु खलु मयि विज्ञापनव्यग्रे
शब्द इव श्रूयते । अङ्ग पश्यामि ।
<stage>( नेपथ्ये )</stage>
भोस्तात ! कोनु खल्वेषः ।
<speaker>सूत्रधारः - </speaker>भवतु, विज्ञातम् ।
<verse lang="sa">भोः शब्दोच्चारणादस्य ब्राह्मणोऽयं न संशयः ।
त्रास्यते निर्विशङ्केन केनचित्पापचेतसा ॥ २ ॥</verse>
<stage>( पुनर्नेपथ्ये )</stage>
भोस्तात ! कोनुखल्वेषः ।
<speaker>सूत्रधारः -</speaker> हन्त दृढं विज्ञातं । एष खलु पाण्डवमध्यमस्यात्मजो
हिडिम्बारणिसंभूतो राक्षसाभिरकृतवैरं ब्राह्मणजनं वित्रासयति ।
भोः कष्टम्<ref>२</ref> । अत्रहि
<footnote mark="१" lang="sa">भुवनैकमणे ।</footnote>
<footnote mark="२">कष्टं कष्टं खलु पत्नीसुतपरिवृतस्य ब्राह्मणस्य वृत्तान्तः ।</footnote>
</page>