This page has been fully proofread once and needs a second look.
सूत्रधारः -
<page>
<subtitle lang="sa">
eft:श्रीः
</subtitle>
<subtitle lang="sa">
भासनाटकचके
</subtitle>
मध्यमव्यायोगः ।
<stage>
( नान्द्यन्ते ततः प्रविशति सूत्रधारः । )
</stage>
<speaker>सूत्रधारः -</speaker>
<verse lang="sa">
पायात्स वोऽसुरवधूहृदयावसादः
पादो हरेः कुवलयामलखङ्गनीलः ।
यः प्रोद्यतस्त्रिभुवनेन<ref>१</ref>क्रमणे रराज
वैडूर्यसंक्रम इवाम्बर सागरस्य ॥ १ ॥
</verse>
एवमार्यमिश्रान्त्रिज्ञापयामि । अये किंनु खलु मयि विज्ञापनव्यग्रे
शब्द इव श्रूयते । अङ्ग पश्यामि ।
<stage>
( नेपथ्ये )
</stage>
भोस्तात ! कोनु खल्वेषः ।
<speaker>
सूत्रधारः - </speaker>भवतु, विज्ञातम् ।
<verse lang="sa">
भोः शब्दोच्चारणादस्य ब्राह्मणोऽयं न संशयः ।
त्रास्यते निर्विशङ्केन केनचित्पापचेतसा ॥ २ ॥
</verse>
<stage>
( पुनर्नेपथ्ये )
</stage>
भोस्तात ! कोनुखल्वेषः ।
<speaker>
सूत्रधारः -</speaker> हन्त दृढं विज्ञातं । एष खलु पाण्डवमध्यमस्यात्मजो
हिडिम्बारणिसंभूतो राक्षसाभिरकृतवैरं ब्राह्मणजनं वित्रासयति ।
भोः कष्टम्<ref>२</ref> । अत्रहि
<footnote mark="
. " lang="sa">भुवने नैकमणे । </footnote>
<footnote mark="
. ">कष्टं कष्टं खलु पत्नीसुतपरिवृतस्य ब्राह्मणस्य वृत्तान्तः ।
</footnote>
</page>