2025-12-29 10:00:49 by ambuda-bot
This page has not been fully proofread.
सूत्रधारः -
॥ eft: ॥
भासनाटकचके
मध्यमव्यायोगः ।
( नान्द्यन्ते ततः प्रविशति सूत्रधारः । )
पायात्स वोऽसुरवधूहृदयावसादः
पादो हरेः कुवलयामलखङ्गनीलः ।
यः प्रोद्यतस्त्रिभुवनेक्रमणे रराज
वैडूर्यसंक्रम इवाम्बर सागरस्य ॥ १ ॥
एवमार्यमिश्रान्त्रिज्ञापयामि । अये किंनु खलु मयि विज्ञापनव्यग्रे
शब्द इव श्रूयते । अङ्ग पश्यामि ।
( नेपथ्ये )
भोस्तात ! कोनु खल्वेषः ।
सूत्रधारः - भवतु, विज्ञातम् ।
भोः शब्दोच्चारणादस्य ब्राह्मणोऽयं न संशयः ।
त्रास्यते निर्विशङ्केन केनचित्पापचेतसा ॥ २ ॥
( पुनर्नेपथ्ये )
भोस्तात ! कोनुखल्वेषः ।
३ सूत्रधारः - हन्त दृढं विज्ञातं । एष खलु पाण्डवमध्यमस्यात्मजो
हिडिम्बारणिसंभूतो राक्षसाभिरकृतवरं ब्राह्मणजनं वित्रासयति ।
भोः कष्टम् । अत्रहि
१. भुवने कमणे । २. कष्टं कष्टं खलु पत्नीसुतपरिवृतस्य ब्राह्मणस्य वृत्तान्तः ।