This page does not need to be proofread.

<page>

मध्यमव्यायोगस्य कथावस्तु ।

अथ कदाचिद दारपुत्रत्रयानुयातः कश्चिद् वृद्धो ब्राह्मणो हिडिम्बावने

घोत्कचेन भीमसेनमनुना रुद्धोऽभूत् । '' मन्मातुर्हिडिम्बाया उपवासनिसर्गार्थं

त्रिपु पुत्रेषु त्वमेकं विसर्जय'' इति तेनोक्तो द्वितीयं पुत्रं मध्यमनामानं पितृ-

भ्रातृवत्सलं विसर्जयामास । अथ पिपासाप्रतीकारार्थमदूरवर्तिनं कमपि जलाशयं

राक्षसानुमत्या गतश्चिरायमाणां मातुराहारकालातिक्रमशङ्कया

भो मध्यम

शीघ्रमागच्छ "

इनि उच्चैरसकृत् तेनाहूतः । ततः पाण्डवमध्यमां भीम

आत्मानमेव मध्यमनाम्नाहूयमानं मत्वा तस्मिन देशे प्राप्तः सन् वृद्धेनाभयं

याचितः । ततो भीम आत्मानमेव राक्षसानुगामिनं प्रतिज्ञाय ब्राह्मणपुत्रं

मध्यमं राज्ञमान्मोचयामास । अथ स्वपुत्रस्य घटोत्कचस्य वलपरीक्षणेच्छया

नमवोचत् "" शक्कश्रेड् बलात्कारेण मां नय"" । तत्र युद्धे पराजेतुमशक्नुवता

राक्षसेन पूर्वसमयं स्मारितां भीमसेनस्तमनुसरन् हिडिम्बाया अन्तिकमास-

साद । तत्र हिडिम्बया भार्योचितममुदाचारेण सम्भावितः । घटोत्कचोऽपि

मातृवाक्यात्तमात्मनः पितरं विज्ञाय तमभ्यवादयत । भीमश्च तं परिष्व-

ज्याशिपाभिननन्द ।

पुरुषा:-

पात्राणि ।

वृद्ध: - त्राह्मणः केशवदासनामा ।

स्त्रियः-

प्रथमः- वृद्धस्य ज्येष्टः

पुत्रः

द्वितीयः - वृद्धस्य द्वितीयः पुत्रां मध्यमनामा ।

तृतीयः - वृद्धस्य कनिष्टः पुत्रः ।

घटोत्कचः - राक्षसो हिडिम्बा भीमसेनयोः सूनुः ।

भीमसेनः - मध्यमः कुन्तीपुत्रः ।

ब्राह्मणी - वृद्धस्य भार्या ।

हिडिम्बा - राक्षसी भीमसेनस्य पत्नी ।

</page>