Proofing

This page has not been fully proofread.

३९४
 
पचरात्रे
 
[ii. 5. -
 
शेन वयमुन्नीतसन्तापाः संवृत्ताः । अथवा परोक्षमपि पाण्डवानां
स्निग्ध इति । सर्वथा योद्धव्यम् । हस्तिनपुरनिवासाच्छीलज्ञो
६ भगवान दुर्योधनस्य । अथवा,
 
कामं दुर्योधनस्यैष न दोषमभिधास्यति ।
अर्थित्वादपरिश्रान्तः पृच्छत्येव हि कार्यवान् ॥ ६ ॥
 
कोऽत्र ।
 
भटः - जयतु महाराजः ।
 
( प्रविश्य )
 
३ राजा - भगवांस्तावदाहूयताम् । (निष्क्रान्त: । )
 
( तत प्रविशति भगवान् । )
 
भगवान् - ( सर्वतो विलोक्य) भोः ! किन्नुखल्विदम् ।
 
गजेन्द्राः कल्प्यन्ते तुरगपतयो वर्मरचिताः
रथाः सानूकर्षाः कृतपरिकरा योधपुरुषाः ।
समुद्योगं दृष्ट्टा भयमननुभूतं स्पृशति मां
 
न खल्वात्मन्यस्तं कृतमतिरहं ते तु चपलाः ॥ ७ ॥
राजा-जयतु भगवान् जयतु । विराटो भगवन् ! अभिवादये ।
 
भगवान् - स्वस्ति ।
 
३ विराटः - भगवन् ! एतदासनमास्यताम् ।
 
भगवन्- ( उपविश्य) भो राजन् !
 
उद्योगः प्रस्तुतः कस्माच्छ्रीर्न सन्तोषमिच्छति ।
पीडयिष्यति सोत्सेकान् पीडितान् मोक्षयिष्यति ॥ ८ ॥
 
राजा - भगवन् ! गोग्रहणादवमानितोऽस्मि ।
 
भगवान् - a
- केन कारणेन ।
 
३ राजा - धार्तराष्ट्रैः ।
 
२२