This page has not been fully proofread.

ii. 5.3 ]
 
द्वितीयोऽङ्कः ।
 
३ भटः--आर्य ! अतिपाति कार्यमिदं शीघ्रं निवेद्यताम् ।
काञ्चुकीयः - इदं निवेद्यते ।
 
६ राजा-
 
( ततः प्रविशति राजा । )
 
मा तावद् व्यथितविकीर्णबालवत्सा
 
गावो मे रथरवशङ्कया ह्रियन्ते ।
पीनांसश्चलवलयः सचन्दनार्दो
 
निर्लज्जो मम च कर: कराणि भुङ्के ॥ ३ ॥
 
जयसेन ! जयसेन !
 
( प्रविश्य )
 
३ भट: - जयतु जयतु महाराजः ।
 
३९३
 
राजा - अलं महाराजशब्देन । अवधूतं मे क्षत्रियत्वम् । उच्यतां
 
रणविस्तरः ।
 
६ भटः- न विस्तरार्हाणि विप्रियाणि । एष समासः,
 
एकवर्णेषु गात्रेषु गवां स्यन्दनरेणुना ।
 
कशापातेषु दृश्यन्ते नानावर्णविभक्तयः ॥ ४ ॥
 
राजा - हि,
 
धनुरुपनय शीघ्रं कल्प्यतां स्यन्दनो मे
 
मम गतिमनुयातु च्छन्दतो यस्य भक्तिः ।
 
रणशिरसि गवार्थे नास्ति मोघः प्रयत्नो
 
निधनमपि यशः स्यान्मोक्षयित्वा तु धर्मः ॥ ५ ॥
 
भटः- यदाज्ञापयति महाराज: । (निष्क्रान्तः । )
 
राजा-
 
- भोः ! किन्नुखलु दुर्योधनस्य मामन्तरेण वैरम् । आ यज्ञ-
३ मनुभवितुमनागत इति । कथमनुभवामि । कीचकानां विना-
 
पञ्च. २२
 
२१