2026-02-23 06:08:30 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>३९२
</ignore>
<ignore>पचरात्रे
</ignore>
<ignore>[ ii. 66_
६६</ignore>

<chaya>प्रहरत प्रहरत । गृह्णीत गृह्णीत । इमं वृत्तान्तं महाराजविराटाय
निवेदयिष्यामः । ]
</chaya>

<ignore>६९
</ignore>

<stage>( निष्क्रान्तः । )
</stage>

<trailer>प्रवेशकः ।
</trailer>

<stage>( ततः प्रविशति भट: )
</stage>

<speaker>भट:-</speaker> भोभो निवेद्यतां निवेद्यतां महाराजाय विराटेश्वराय -- एता
३
हि दस्युकर्मप्रच्छन्नविक्रमैर्धार्तराष्ट्ररैर्हियन्ते गाव इति । तत्र हि,

<verse>तैश्च वत्सैर्व्यथितैश्च गोगणै-
र्निरीक्षणत्रस्तमुखैश्च गोवृषैः ।
कृतार्तनादाकुलितं समन्ततो
इति ।
गवां कुलं शोच्यमिहाकुलाकुलम् ॥ १ ॥
</verse>

इति ।

<stage>( नेपथ्ये )
</stage>

किं धार्तराष्ट्रैरिति ।

<speaker>भटः-</speaker> आर्य ! अथकिम् ।

<stage>( प्रविश्य )
६</stage>

<speaker>काञ्चुकीयः-</speaker> सदृशमेतद् भ्रातृजनेष्वपि द्रोहिणाम् ।

<verse>सज्जैश्वाचौपर्बद्धगोधाङ्गलित्रा
वर्मच्छन्नाः कल्पितस्यन्दनस्थाः ।
वीर्येत्सिक्ता युद्धसज्जाः कृतास्त्रा
राज्ञो वैरं गोषु निर्यातयन्ति ॥ २ ॥
</verse>

जयसेन ! जन्मनक्षत्रक्रियाव्यापृतस्य महाराजस्य तावदकाल-
निवेदनं मन्युमुत्पादयति । तस्मात् पुण्याहावसाने निवेदयिष्ये ।

<ignore>२०
</ignore>
</page>
<ignore>३९२
<ignore>पचरात्रे
<ignore>[ ii. 66_
६६

<chaya>प्रहरत प्रहरत । गृह्णीत गृह्णीत । इमं वृत्तान्तं महाराजविराटाय
निवेदयिष्यामः । ]
<ignore>६९

<stage>( निष्क्रान्तः । )
<trailer>प्रवेशकः ।

<stage>( ततः प्रविशति भट: )

<speaker>भट:-</speaker> भोभो निवेद्यतां निवेद्यतां महाराजाय विराटेश्वराय -- एता
३
हि दस्युकर्मप्रच्छन्नविक्रमैर्धार्तराष्ट्
<verse>तैश्च वत्सैर्व्यथितैश्च गोगणै-
र्निरीक्षणत्रस्तमुखैश्च गोवृषैः ।
कृतार्तनादाकुलितं समन्ततो
इति ।
गवां कुलं शोच्यमिहाकुलाकुलम् ॥ १ ॥

इति ।

<stage>( नेपथ्ये )

किं धार्तराष्ट्रैरिति ।

<speaker>भटः-</speaker> आर्य ! अथकिम् ।

<stage>( प्रविश्य )
६

<speaker>काञ्चुकीयः-</speaker> सदृशमेतद् भ्रातृजनेष्वपि द्रोहिणाम् ।
<verse>सज्जैश्