This page has not been fully proofread.

३९२
 
पचरात्रे
 
[ ii. 66_
 
६६ प्रहरत प्रहरत । गृह्णीत गृह्णीत । इमं वृत्तान्तं महाराजविराटाय
 
निवेदयिष्यामः । ]
 
६९
 
( निष्क्रान्तः । )
 
प्रवेशकः ।
 
( ततः प्रविशति भट: )
 
भट:- भोभो निवेद्यतां निवेद्यतां महाराजाय विराटेश्वराय -- एता
३ हि दस्युकर्मप्रच्छन्नविक्रमैर्धार्तराष्ट्रर्हियन्ते गाव इति । तत्र हि,
तैश्च वत्सैर्व्यथितैश्च गोगणै-
निरीक्षणत्रस्तमुखैश्च गोवृषैः ।
कृतार्तनादाकुलितं समन्ततो
 
इति ।
 
गवां कुलं शोच्यमिहाकुलाकुलम् ॥ १ ॥
 
( नेपथ्ये )
 
किं धार्तराष्ट्रैरिति ।
 
टः- आर्य ! अथकिम् ।
 
( प्रविश्य )
 
६ काञ्चुकीयः- सदृशमेतद् भ्रातृजनेष्वपि द्रोहिणाम् ।
 
सज्जैश्वापद्धगोधाङ्गलित्रा
 
वर्मच्छन्नाः कल्पितस्यन्दनस्थाः ।
 
वीर्येत्सिक्ता युद्धसज्जाः कृतास्त्रा
 
राज्ञो वैरं गोषु निर्यातयन्ति ॥ २ ॥
 
जयसेन ! जन्मनक्षत्रक्रियाव्यापृतस्य महाराजस्य तावदकाल-
निवेदनं मन्युमुत्पादयति । तस्मात् पुण्याहावसाने निवेदयिष्ये ।
 
२०