This page has not been fully proofread.

ii. 65 ]
 
द्वितीयोऽङ्कः ।
 
३९१
 
४२ च । महाराजस्य विराटस्य वर्षवर्धनगोप्रदाननिमित्तमस्यां नगरोपव-
नवीथ्यामायातु गोधनम् । तावतीं वेलां गायन्तो नृत्यन्तो भवामः । ]
सर्वे - जं मादुळो आणवेदि । ( सर्वे नृत्यन्ति । ) [ यन्मातुल आज्ञा-
४५ पयति । ]
 
वृद्धगोपालकः–हीही पुष्ठु णच्चिदम्, पुहु गाइदं । जाव अहं पि
चेमि । [ हीही सुष्ठु नर्तितं, सुष्ठु गीतं, यावदहमपि नृत्यामि । ]
४८ सर्वे - हाहा मादुळ ! अदिमहन्तं ळेणुं उप्पदिदो । [ हाहा
मातुल ! अतिमहान् रेणुरुत्पतित: । ]
 
वृद्धगोपालकः - ण हु ळेणुं एव्व षंक्खुदुन्दुभिघोषं उप्पदिदो ।
५१ [ न खलु रेणुरेव, शङ्खदुन्दुभिघोषः उत्पतितः । ]
 
सर्वे-दिवाचन्दप्पभापण्डुळ जोहावगुण्ठिदो पदमण्डलु पुय्यो
अस्थि अ णत्थि अ । [ दिवाचन्द्रप्रभापाण्डुरज्योत्स्नावगुण्ठितः
५४ शतमण्डलः सूर्योऽस्ति च नास्ति च । ]
 
गोमित्रकः - हाहा मादुळ ! एढ़े के वि मणुष्षा दहिपिण्डपण्डरे ह
छत्तेहि घोडअषअडिअं आळुहिअ पव्वं घोषं विद्दवन्ति चोळा ।
५७ [ हाहा मातुल ! एते केऽपि मनुष्या दधिपिण्डपाण्डरैश्छत्रै घटकशक-
टिकामारुह्य सर्वं घोषं विद्रवन्ति चोरा: । ]
 
वृद्धगोपालकः - हीही परषंपादा उट्टिदा । दारआ ! दाळिआ !
६० षिग्धं पक्कणं पविषह । [ हीही शरसंपाता उत्थिताः । दारकाः !
दारिकाः ! शीघ्रं पक्कणं प्रविशत । ]
 
सर्वे - जं मादुळो आणवेदि । (निष्क्रान्ता: । ) [ यन्मातुल आज्ञा-
६३ पयति । ]
 
वृद्धगोपालकः–हाहा चिट्ठह चिट्ठह । पहरह पहरह । गह गहह । इ
वुत्तन्तं महाळा अविळाडश्श णिवेदइष्षामो । [ हाहा तिष्ठत तिष्ठत ।
 
१९