This page does not need to be proofread.

<page>

पञ्चरात्रस्य कथावस्तु ।

यज्ञानागमना-

यज्ञस्यान्ते दुर्योधनो यज्ञाङ्गदक्षिणाखेनाचार्याय द्रोणाय तदीप्सितस्य

यस्य कस्याप्यर्थस्य दानं प्रतिशुश्राव । ततः पाण्डवेभ्योधराज्यसंविभागमेव

स्वाभीप्सितमर्थं द्रोणः शशंस । ततः शकुनिच्छन्दानुवर्तिना दुर्योधनेन ""यदि

पञ्चरात्राभ्यन्तरेऽज्ञातवासिनां पाण्डवानां प्रवृत्तिरुपलभ्येत तर्हि तेभ्योऽर्धराज्यं

दास्यामि "" इत्यपूर्वः समयः परिकल्पितः । अत्रान्तरे विराटनगरात्

प्राप्तेन दूतेन महाबलस्य कीचकशतस्य निगूढवधे निवेदिते भीमसेनादपरो न

कोsपि एतत्कर्तुं समर्थ इति मत्वा विराटपुरे पाण्डवप्रवृत्तेरुपलम्भनीयतां

सम्भावयतो भीष्मस्य प्रेरणया द्रोणेनाङ्गीकृतः समयः ।

पराधं चापदिश्य विराटस्य गोग्रहणं कर्तुं भीष्मद्रोणदुर्योधनादयः सर्वेऽपि

युद्धार्थं तचगरीमभिप्रतस्थिरे । तत्र बृहन्नलावेषच्छन्नात्मनार्जुनेन सर्वेऽपि

कौरवाः पराजिताः समरमपास्य प्रदुद्रुवुः । ततोऽज्ञातवेषेण निवसतः

पाण्डवान् ज्ञात्वा सत्कृस्य विराटेन गोग्रहणविजयशुल्कार्थे दत्ता उत्तरा

स्वपुत्रार्थेऽर्जुनेन प्रतिगृहीता । तत उत्तराभिमन्युविवाहकार्यं निवेदयितुं

युधिष्ठिरेण स्वपितामहाय प्रेषितो विराटपुत्र उत्तरः । इत्थं च पञ्चरात्राभ्यन्तरे

पाण्डवानां प्रवृत्तिमुपलभ्य यथाप्रतिज्ञं दुर्योधनः पाण्डवेभ्योऽर्धराज्यं ददौ ।

पात्राणि ।

दुर्योधनः- कुरुराजः ।

भीष्मः - दुर्योधनादीनां पितामहः ।

द्रोणः - दुर्योधनादीनां धनुराचार्यः ।

कर्णः - अङ्गेश्वरो दुर्योधनस्य सखा ।

शकुनिः —- दुर्योधनस्य मातुलः ।

भटः - दुर्योधनस्य भृत्यः ।

वृद्धगोपालकः -- गोकुलाध्यक्षः ।

गोमित्रकः -- कश्चिद् गोपालः ।

राजा मत्स्य देशाधिपतिर्विराटनामा ।

भगवान् -- ब्राह्मणव्यज्जनो धर्मपुत्रः ।

</page>