2026-02-07 08:07:30 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>-vi. 35.3]
षष्ठोऽङ्कः ।
</ignore>
<verse>यमवरुणकुबेरवासवाद्यैस्त्रिदशगणैरभिसंवृतो विभाति ।
३६९
दशरथवचनात् कृताभिषेकस्त्रिदशपतित्वमवाप्य वृत्रहेव ॥ ३३ ॥
</verse>

<stage>( ततः प्रविशति कृताभिषेको रामः सीतया सह । )
</stage>

<speaker>रामः -</speaker> वत्स ! लक्ष्मण !

<verse>येनाहं कृतमङ्गलप्रतिसरो भद्रासनारोपितो-
s
ऽप्यम्बायाः प्रियमिच्छता नृपतिना भिन्नाभिषेकः कृतः ।
व्यक्तं दैवगतिं गतेन गुरुणा प्रत्यक्षतः साम्प्रतं
तेनैवाद्य पुनः प्रहृष्टमनसा प्राप्राताभिषेकः कृतः ॥ ३४ ॥
</verse>

<speaker>अग्नि: -</speaker> भद्रमुख ! एता हि महेन्द्रनियोगाद् भरतशत्रुघ्नपुरःसराः
प्रकृतयो भवन्तमुपस्थिताः ।
३

<speaker>रामः -</speaker> भगवान् ! प्रहृष्टोऽस्मि ।

<speaker>अभिः -</speaker> इमे महेन्द्रादयोऽमृतभुजो भवन्तमभिवर्धयन्ति ।

<speaker>रामः -</speaker> अनुगृहीतोऽस्मि ।

<speaker>अभिः -</speaker> भद्रमुख ! किं ते भूयः प्रियमुपहरामि ।

<speaker>राम: -</speaker> यदि मे भगवान् प्रसन्नः, किमतः परमहमिच्छामि ।

<stage>( भरतवाक्यम् । )
</stage>

<verse>भवन्त्वरजसो गावः परचक्रं प्रशाम्यतु ।
इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः ॥ ३५ ॥
</verse>

<stage>( निष्क्रान्ताः सर्वे )
</stage>

<trailer>षष्ठोऽङ्कः ।
</trailer>
<trailer>अभिषेक नाटकं समाप्तम् ।
</trailer>
<ignore>४९
</ignore>
</page>
<ignore>-vi. 35.3]
षष्ठोऽङ्कः ।
<verse>यमवरुणकुबेरवासवाद्यैस्त्रिदशगणैरभिसंवृतो विभाति ।
३६९
दशरथवचनात् कृताभिषेकस्त्रिदशपतित्वमवाप्य वृत्रहेव ॥ ३३ ॥

<stage>( ततः प्रविशति कृताभिषेको रामः सीतया सह । )

<speaker>रामः -</speaker> वत्स ! लक्ष्मण !
<verse>येनाहं कृतमङ्गलप्रतिसरो भद्रासनारोपितो-
s
ऽप्यम्बायाः प्रियमिच्छता नृपतिना भिन्नाभिषेकः कृतः ।
व्यक्तं दैवगतिं गतेन गुरुणा प्रत्यक्षतः साम्प्रतं
तेनैवाद्य पुनः प्रहृष्टमनसा प्राप्

<speaker>अग्नि: -</speaker> भद्रमुख ! एता हि महेन्द्रनियोगाद् भरतशत्रुघ्नपुरःसराः
प्रकृतयो भवन्तमुपस्थिताः ।
३

<speaker>रामः -</speaker> भगवान् ! प्रहृष्टोऽस्मि ।

<speaker>अभिः -</speaker> इमे महेन्द्रादयोऽमृतभुजो भवन्तमभिवर्धयन्ति ।

<speaker>रामः -</speaker> अनुगृहीतोऽस्मि ।

<speaker>अभिः -</speaker> भद्रमुख ! किं ते भूयः प्रियमुपहरामि ।

<speaker>राम: -</speaker> यदि मे भगवान् प्रसन्नः, किमतः परमहमिच्छामि ।

<stage>( भरतवाक्यम् । )
<verse>भवन्त्वरजसो गावः परचक्रं प्रशाम्यतु ।
इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः ॥ ३५ ॥

<stage>( निष्क्रान्ताः सर्वे )
<trailer>षष्ठोऽङ्कः ।
<trailer>अभिषेक
<ignore>४९
</page>