This page has not been fully proofread.

-vi. 35.3]
 
षष्ठोऽङ्कः ।
 
यमवरुणकुबेरवासवाद्यैस्त्रिदशगणैरभिसंवृतो विभाति ।
 
३६९
 
दशरथवचनात् कृताभिषेकस्त्रिदशपतित्वमवाप्य वृत्रहेव ॥ ३३ ॥
( ततः प्रविशति कृताभिषेको रामः सीतया सह । )
रामः - वत्स ! लक्ष्मण !
 
येनाहं कृतमङ्गलप्रतिसरो भद्रासनारोपितो-
 
sप्यम्बायाः प्रियमिच्छता नृपतिना भिन्नाभिषेकः कृतः ।
व्यक्तं दैवगतिं गतेन गुरुणा प्रत्यक्षतः साम्प्रतं
 
तेनैवाद्य पुनः प्रहृष्टमनसा प्राप्राभिषेकः कृतः ॥ ३४ ॥
अग्नि: - भद्रमुख ! एता हि महेन्द्रनियोगाद् भरतशत्रुघ्नपुरःसराः
प्रकृतयो भवन्तमुपस्थिताः ।
 
३ रामः - भगवान् ! प्रहृष्टोऽस्मि ।
 
अभिः - इमे महेन्द्रादयोऽमृतभुजो भवन्तमभिवर्धयन्ति ।
 
रामः - अनुगृहीतोऽस्मि ।
 
अभिः - भद्रमुख ! किं ते भूयः प्रियमुपहरामि ।
 
राम: - यदि मे भगवान् प्रसन्नः, किमतः परमहमिच्छामि ।
( भरतवाक्यम् । )
 
भवन्त्वरजसो गावः परचक्रं प्रशाम्यतु ।
 
इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः ॥ ३५ ॥
( निष्क्रान्ताः सर्वे )
षष्ठोऽङ्कः ।
 
अभिषेक नाटकं समाप्तम् ।
 
४९