This page has been fully proofread once and needs a second look.

<page>
<ignore>
३६८

अभिषेक नाटके

</ignore>
<verse>
ब्रह्मा ते हृदयं जगत्रयपते ! रुद्रश्च कोपस्तव

नेत्रे चन्द्रदिवाकरौ सुरपते ! जिह्वा च ते भारती ।

त्ब्रह्मेन्द्रमरुद्गणं त्रिभुवनं सृष्टं त्वयैव प्रभो !

[ vi. 30. -

सीतेयं जलसम्भवालयरता विष्णुर्भवान् गृह्यताम् ॥ ३० ॥
</verse>

<stage>
( पुनर्नेपथ्ये अपरे गायन्ति । )

</stage>

<verse>
मग्नेयं हि जले वराहवपुषा भूमिस्त्वयैवोद्धृता

विक्रान्तं भुवनत्रयं सुरपते ! पादत्रयेण त्वया ।

स्वैरं रूपमुपस्थितेन भवता देव्या यथा साम्प्रतं

हत्वा रावणमाहवे न हि तथा देवाः समाश्वासिताः ॥३१॥
</verse>

<speaker>
भिःग्निः - भ</speaker>द्रमुख ! एते देवदेवर्षिसिद्धविद्याधरगन्धर्वाप्सरोगणाः

स्वविभवैर्भवन्तं वर्धयन्ति ।

<speaker>
रामः -</speaker> अनुगृहीतोऽस्मि ।

<speaker>
अग्निः-</speaker>भद्रमुख ! अभिषेकार्थमित इतो भवान् ।

<speaker>
रामः -</speaker> यदाज्ञापयति भगवान् ।

<stage>
(निष्क्रान्तौ । )

</stage>

<stage>
( नेपथ्ये )

</stage>

जयतु देवः । जयतु स्वामी । जयतु भद्रमुखः । जयतु महाराजः

जयतु रावणान्तकः । जयत्वायुष्मान् ।

<speaker>
विभीषण: -</speaker> एष एष महाराजः,

<verse>
तीर्त्वा प्रतिज्ञार्णवमाहवेऽद्य

सम्प्राप्य देवीं च विधूतपापाम् ।

देवैः समस्तैश्च कृताभिषेको

विभाति शुभ्रे नभसीव चन्द्रः ॥ ३२ ॥

</verse>

<speaker>
लक्ष्मणः -</speaker> अहोतुखल्वार्यस्य वैष्णवं तेजः ।

<ignore>
४८

</ignore>
</page>