2025-12-29 10:00:40 by ambuda-bot
This page has not been fully proofread.
३६८
अभिषेक नाटके
ब्रह्मा ते हृदयं जगत्रयपते ! रुद्रश्च कोपस्तव
नेत्रे चन्द्रदिवाकरौ सुरपते ! जिह्वा च ते भारती ।
सत्रह्मेन्द्रमरुद्गणं त्रिभुवनं सृष्टं त्वयैव प्रभो !
[ vi. 30. -
सीतेयं जलसम्भवालयरता विष्णुर्भवान् गृह्यताम् ॥ ३० ॥
( पुनर्नेपथ्ये अपरे गायन्ति । )
मग्नेयं हि जले वराहवपुषा भूमिस्त्वयैवोद्धृता
विक्रान्तं भुवनत्रयं सुरपते ! पादत्रयेण त्वया ।
स्वैरं रूपमुपस्थितेन भवता देव्या यथा साम्प्रतं
हत्वा रावणमाहवे न हि तथा देवाः समाश्वासिताः ॥३१॥
अभिः - भद्रमुख ! एते देवदेवर्षिसिद्धविद्याधरगन्धर्वाप्सरोगणाः
स्वविभवैर्भवन्तं वर्धयन्ति ।
३ रामः - अनुगृहीतोऽस्मि ।
अग्निः-भद्रमुख ! अभिषेकार्थमित इतो भवान् ।
रामः - यदाज्ञापयति भगवान् ।
(निष्क्रान्तौ । )
( नेपथ्ये )
जयतु देवः । जयतु स्वामी । जयतु भद्रमुखः । जयतु महाराजः
जयतु रावणान्तकः । जयत्वायुष्मान् ।
विभीषण: - एष एष महाराजः,
तीर्त्वा प्रतिज्ञार्णवमाहवेऽद्य
सम्प्राप्य देवीं च विधूतपापाम् ।
देवैः समस्तैश्च कृताभिषेको
विभाति शुभ्रे नभसीव चन्द्रः ॥ ३२ ॥
लक्ष्मणः - अहोतुखल्वार्यस्य वैष्णवं तेजः ।
४८