2026-02-07 08:02:27 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>vi. 29.'' ]
षष्ठोऽङ्कः ।
</ignore>
<verse>एषा कनकमालेव ज्वलनाद् वर्धितप्रभा ।
पावना पावकं प्राप्य निर्विकारमुपागता ॥ २५ ॥
</verse>

<speaker>रामः - </speaker> <stage>( सविस्मयम् )</stage> किमिति किमिति ।

<speaker>लक्ष्मणः -</speaker> अहो, आश्चर्यम् ।

<stage>( प्रविश्य )</stage>

<speaker>सुग्रीवः -</speaker> जयतु देवः ।
( प्रविश्य )

<verse>कोनुखत्ल्वेष जीवन्तीमादाय जनकात्मजाम् ।
प्रणम्यरूपः सम्भूतो ज्वलतो हव्यवाहनात् ॥ २६ ॥
३६७
</verse>

<speaker>लक्ष्मणः -</speaker> अये अयमार्यां पुरस्कृत्येत एवाभिवर्तते भगवान् विभावसुः ।

<speaker>रामः-</speaker>अये अयं भगवान् हुताशनः । उपसर्पामस्तावत् ।

<stage>( सर्वे उपसर्पन्ति । )
</stage>

<stage>( ततः प्रविश्यत्यग्निः सीतां गृहीत्वा । )
</stage>

<speaker>अग्निः -</speaker> एष भगवान् नारायणः । जयतु देवः ।

<speaker>रामः -</speaker> भगवन् ! नमस्ते ।

<speaker>अग्निः-</speaker> न मे नमस्कारं कर्तुमर्हति देवेशः ।
अपिच,

<verse>इमां गृह्णीष्व राजेन्द्र ! सर्वलोकनमस्कृताम् ।
अपापामक्षतां शुद्धां जानकी पुरुषोत्तम ! ॥ २७ ॥
</verse>

अपिच,

<verse>इमां भगवती लक्ष्मीं जानीहि जनकात्मजाम् ।
सा भवन्तमनुप्राप्ता मानुषीं तनुमास्थिता ॥ २८ ॥
</verse>

<speaker>राम: -</speaker> अनुगृहीतोऽस्मि ।

<verse>जानतापि च वैदेह्याः शुचितां धूमकेतन ! ।
प्रत्ययार्थं हि लोकानामेवमेव मया कृतम् ॥ २९ ॥
</verse>

<stage>( नेपथ्ये दिव्यगन्धर्वा गायन्ति । )
</stage>

नमो भगवते त्रैलोक्यकारणाय नारायणाय ।

<ignore>४७
</ignore>
</page>
<ignore>vi. 29.
षष्ठोऽङ्कः ।
<verse>एषा कनकमालेव ज्वलनाद् वर्धितप्रभा ।
पावना पावकं प्राप्य निर्विकारमुपागता ॥ २५ ॥

<speaker>रामः -

<speaker>लक्ष्मणः -</speaker> अहो, आश्चर्यम् ।

<stage>( प्रविश्य )</stage>

<speaker>सुग्रीवः -</speaker> जयतु देवः ।
( प्रविश्य )
<verse>कोनुख