2025-12-29 10:00:39 by ambuda-bot
This page has not been fully proofread.
vi. 29.' ]
षष्ठोऽङ्कः ।
एषा कनकमालेव ज्वलनाद् वर्धितप्रभा ।
पावना पावकं प्राप्य निर्विकारमुपागता ॥ २५ ॥
रामः - ( सविस्मयम् ) किमिति किमिति ।
लक्ष्मणः - अहो, आश्चर्यम् ।
सुग्रीवः - जयतु देवः ।
( प्रविश्य )
कोनुखत्वेष जीवन्तीमादाय जनकात्मजाम् ।
प्रणम्यरूपः सम्भूतो ज्वलतो हव्यवाहनात् ॥ २६ ॥
३६७
लक्ष्मणः - अये अयमार्यां पुरस्कृत्येत एवाभिवर्तते भगवान् विभावसुः ।
रामः-अये अयं भगवान् हुताशनः । उपसर्पामस्तावत् ।
( सर्वे उपसर्पन्ति । )
( ततः प्रविश्यत्यग्निः सीतां गृहीत्वा । )
अग्निः - एष भगवान् नारायणः । जयतु देवः ।
रामः - भगवन् ! नमस्ते ।
अग्निः- न मे नमस्कारं कर्तुमर्हति देवेशः ।
अपिच,
इमां गृह्णीष्व राजेन्द्र ! सर्वलोकनमस्कृताम् ।
अपापामक्षतां शुद्धां जानकी पुरुषोत्तम ! ॥ २७ ॥
इमां भगवती लक्ष्मीं जानीहि जनकात्मजाम् ।
सा भवन्तमनुप्राप्ता मानुषीं तनुमास्थिता ॥ २८ ॥
राम: - अनुगृहीतोऽस्मि ।
जानतापि च वैदेह्याः शुचितां धूमकेतन ! ।
प्रत्ययार्थं हि लोकानामेवमेव मया कृतम् ॥ २९ ॥
( नेपथ्ये दिव्यगन्धर्वा गायन्ति । )
नमो भगवते त्रैलोक्यकारणाय नारायणाय ।
४७