This page has been fully proofread once and needs a second look.

<page>
<ignore>
३६६

</ignore>
<ignore>

अभिषेक नाटके

</ignore>
<ignore>
[ vi. 22.3 --

</ignore>

<stage>( प्रविश्य )</stage>

<speaker>
लक्ष्मण:-

( प्रविश्य )

</speaker> जयत्वार्यः । आर्यस्याभिप्रायं श्रुत्वैवाग्निप्रवेशाय प्रसादं

प्रतिपालयत्यार्या ।

<speaker>
राम:-</speaker>लक्ष्मण ! अस्याः पतिव्रतायाइछन्दमनुतिष्ठ ।

<speaker>
लक्ष्मणः-</speaker> यदाज्ञापयत्यार्यः । <stage>(परिक्रम्य)</stage> भोः ! कष्टम् ।

<verse>
विज्ञाय देव्याः शौचं च श्रुत्वा चार्यस्य शासनम् ।

धर्मस्नेहान्तरे न्यस्ता बुद्धिर्दोलायते मम ॥ २३ ।

</verse>

कोऽत्र ।

<stage>
( प्रविश्य )

</stage>

<speaker>
हनूमान् -</speaker> जयतु कुमारः ।

<speaker>
लक्ष्मणः -</speaker> हनूमन् ! यदि ते शक्तिरस्ति, एवमाज्ञापयत्यार्यः

<speaker>
हनुमान् -</speaker> अत्र किं तर्कयति कुमारः ।

:1

<speaker>
लक्ष्मणः-</speaker> निष्फलो मम तर्कः । अथवा वयमार्यस्याभिप्रायमनुवर्ति-

तारः । गच्छामस्तावत् ।

<speaker>
हनूमान् -</speaker> यदाज्ञापयति कुमारः ।

<stage>
(निष्क्रान्तौ । )

</stage>

<stage>
( प्रविश्य )

</stage>

<speaker>
लक्ष्मणः -</speaker> प्रसीदत्वार्यः । आर्य ! आश्चर्यमाश्चर्यम् । एषा ह्यार्यां,

<verse>
विकसितशतपत्रदामकल्पा ज्वलनमिहाशु विमुक्तजीविताशा ।

श्रममिह तव निष्फलं च कृत्वा प्रविशति पद्मवनं यथैव हंसी ॥ २४ ॥
</verse>

<speaker>
रामः-</speaker> आश्चर्यमाश्चर्यम् । लक्ष्मण ! निवारय निवारय ।

<speaker>
लक्ष्मणः–</speaker>यदाज्ञापयत्यार्थः ।

<stage>
( प्रविश्य )

</stage>

<speaker>
हनूमान् -</speaker> जयतु देवः ।

<ignore>
४६

</ignore>
</page>