2025-12-29 10:00:39 by ambuda-bot
This page has not been fully proofread.
३६६
६
अभिषेक नाटके
[ vi. 22.3 --
लक्ष्मण:-
( प्रविश्य )
:- जयत्वार्यः । आर्यस्याभिप्रायं श्रुत्वैवाग्निप्रवेशाय प्रसादं
प्रतिपालयत्यार्या ।
राम:-लक्ष्मण ! अस्याः पतिव्रतायाइछन्दमनुतिष्ठ ।
लक्ष्मणः- यदाज्ञापयत्यार्यः । (परिक्रम्य) भोः ! कष्टम् ।
विज्ञाय देव्याः शौचं च श्रुत्वा चार्यस्य शासनम् ।
धर्मस्नेहान्तरे न्यस्ता बुद्धिर्दोलायते मम ॥ २३ ।
कोऽत्र ।
( प्रविश्य )
३
हनूमान् - जयतु कुमारः ।
६
९
लक्ष्मणः - हनूमन् ! यदि ते शक्तिरस्ति, एवमाज्ञापयत्यायः
हनुमान् - अत्र किं तर्कयति कुमारः ।
:1
लक्ष्मणः- निष्फलो मम तर्कः । अथवा वयमार्यस्याभिप्रायमनुवर्ति-
तारः । गच्छामस्तावत् ।
हनूमान् - यदाज्ञापयति कुमारः ।
(निष्क्रान्तौ । )
( प्रविश्य )
लक्ष्मणः - प्रसीदत्वार्यः । आर्य ! आश्चर्यमाश्चर्यम् । एषा ह्यार्यां,
विकसितशतपत्रदामकल्पा ज्वलनमिहाशु विमुक्तजीविताशा ।
श्रममिह तव निष्फलं च कृत्वा प्रविशति पद्मवनं यथैव हंसी ॥ २४ ॥
रामः- आश्चर्यमाश्चर्यम् । लक्ष्मण ! निवारय निवारय ।
लक्ष्मणः–यदाज्ञापयत्यार्थः ।
( प्रविश्य )
हनूमान् - जयतु देवः ।
४६