2026-02-07 07:57:26 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>-vi. 22.2]
राम:-
षष्ठोऽङ्कः ।
</ignore>

<stage>( ततः प्रविशति रामः । )
</stage>

<speaker>राम:-</speaker>

<verse>हत्वा रावणमाहवेऽद्य तरसा मद्राबाणवेगार्दितं
कृत्वा चापि विभीषणं शुभमतिं लङ्केश्वरं साम्प्रतम् ।
तीर्त्वा चैवमनल्पसत्त्वचरितं दोर्भ्यां प्रतिज्ञार्णवं
३६५
लङ्कामभ्युपयामि बन्धुसहितः सीतां समाश्वासितुम् ॥ १९ ॥
</verse>

<stage>( प्रविश्य )
गः</stage>

<speaker>लक्ष्मणः-</speaker> जयत्वार्यः । आर्य ! एषा ह्यार्यार्यस्य समीपमुपसर्पति ।

<speaker>रामः -</speaker> वत्स ! लक्ष्मण:-
३ रामः - वत्स ! लक्ष्मण !

<verse>अपायाच्च हि वैदेह्या उषिताया रिपुक्षये ।
दर्शनात् साम्प्रतं धैर्यं मन्युर्मे वारयिष्यति ॥ २० ॥
</verse>

<speaker>लक्ष्मणः-</speaker> यदाज्ञापयत्यार्यः । <stage>(निष्क्रान्तः । )
३</stage>

<stage>( प्रविश्य )</stage>

<speaker>विभीषणः -</speaker> जयतु देवः ।
( प्रविश्य )

<verse>एषा हि राजंस्तव धर्मपत्नी त्वद्वाबाहुवीर्येण विधूतदुःखा ।
लक्ष्मीः पुरा दैत्यकुलच्युतेव तव प्रसादात् समुपस्थिता सा ॥ २१ ॥
</verse>

<speaker>रामः -</speaker> विभीषण ! तत्रैव तावत् तिष्ठतु रजनिचरावमर्श जातकल्मषा
इक्ष्वाकुकुलस्याङ्कभूता । राजानं दशरथं पितरमुद्दिश्य न युक्तं भो
३
लङ्काधिपते ! मां द्रष्टुम् । अपिच,

<verse>मज्जमानमकार्येषु पुरुषं विषयेषु वै ।
निवारयति यो राजन् ! स मित्रं रिपुरन्यथा ॥ २२ ॥
</verse>

<speaker>विभीषणः -</speaker> प्रसीदतु देवः ।

<speaker>रामः -</speaker> नार्हति भवानतः परं पीडयितुम् ।

<ignore>४५
</ignore>
</page>
<ignore>-vi. 22.2]
राम:-
षष्ठोऽङ्कः ।

<stage>( ततः प्रविशति रामः । )

<speaker>राम:-</speaker>

<verse>हत्वा रावणमाहवेऽद्य तरसा मद्
कृत्वा चापि विभीषणं शुभमतिं लङ्केश्वरं साम्प्रतम् ।
तीर्त्वा चैवमनल्पसत्त्वचरितं दोर्भ्यां प्रतिज्ञार्णवं
३६५
लङ्कामभ्युपयामि बन्धुसहितः सीतां समाश्वासितुम् ॥ १९ ॥

<stage>( प्रविश्य )
गः

<speaker>लक्ष्मणः-</speaker> जयत्वार्यः । आर्य ! एषा ह्यार्यार्यस्य समीपमुपसर्पति ।

<speaker>रामः -</speaker> वत्स ! लक्ष्मण
३ रामः - वत्स
<verse>अपायाच्च हि वैदेह्या उषिताया रिपुक्षये ।
दर्शनात् साम्प्रतं धैर्यं मन्युर्मे वारयिष्यति ॥ २० ॥

<speaker>लक्ष्मणः-</speaker> यदाज्ञापयत्यार्यः । <stage>(निष्क्रान्तः । )
३

<stage>( प्रविश्य )</stage>

<speaker>विभीषणः -</speaker> जयतु देवः ।
( प्रविश्य )
<verse>एषा हि राजंस्तव धर्मपत्नी त्वद्
लक्ष्मीः पुरा दैत्यकुलच्युतेव तव प्रसादात् समुपस्थिता सा ॥ २१ ॥

<speaker>रामः -</speaker> विभीषण ! तत्रैव तावत् तिष्ठतु रजनिचरावमर्श