2025-12-29 10:00:39 by ambuda-bot
This page has not been fully proofread.
-vi. 22.2]
राम:-
षष्ठोऽङ्कः ।
( ततः प्रविशति रामः । )
हत्वा रावणमाहवेऽद्य तरसा मद्राणवेगार्दितं
कृत्वा चापि विभीषणं शुभमतिं लङ्केश्वरं साम्प्रतम् ।
तीर्त्वा चैवमनल्पसत्त्वचरितं दोर्भ्यां प्रतिज्ञार्णवं
३६५
लङ्कामभ्युपयामि बन्धुसहितः सीतां समाश्वासितुम् ॥ १९ ॥
( प्रविश्य )
गः - जयत्वार्यः । आर्य ! एषा ह्यार्यार्यस्य समीपमुपसर्पति ।
लक्ष्मण:-
३ रामः - वत्स ! लक्ष्मण !
अपायाच्च हि वैदेह्या उषिताया रिपुक्षये ।
दर्शनात् साम्प्रतं धैर्यं मन्युर्मे वारयिष्यति ॥ २० ॥
लक्ष्मणः- यदाज्ञापयत्यार्यः । (निष्क्रान्तः । )
३ विभीषणः - जयतु देवः ।
( प्रविश्य )
एषा हि राजंस्तव धर्मपत्नी त्वद्वाहुवीर्येण विधूतदुःखा ।
लक्ष्मीः पुरा दैत्यकुलच्युतेव तव प्रसादात् समुपस्थिता सा ॥ २१ ॥
रामः - विभीषण ! तत्रैव तावत् तिष्ठतु रजनिचरावमर्श जातकल्मषा
इक्ष्वाकुकुलस्याङ्कभूता । राजानं दशरथं पितरमुद्दिश्य न युक्तं भो
३ लङ्काधिपते ! मां द्रष्टुम् । अपिच,
मज्जमानमकार्येषु पुरुषं विषयेषु वै ।
निवारयति यो राजन् ! स मित्रं रिपुरन्यथा ॥ २२ ॥
विभीषणः - प्रसीदतु देवः ।
रामः - नार्हति भवानतः परं पीडयितुम् ।
४५