This page has been fully proofread once and needs a second look.

<page>
<ignore>
३६४

</ignore>

<speaker>
द्वितीय:-</speaker> अहोतुखलु,

अभिषेक नाटके

<ignore>
[ vi. 13. ---

</ignore>
<verse>
चारीभिरेतौ परिवर्तमानौ रथे स्थितौ बाणगणान् वमन्तौ ।

स्वरश्मिजालैर्धरणिणिं दहन्तौ सूर्याविव द्वौ नभसि भ्रमन्तौ ॥ १४ ॥
</verse>

<speaker>
तृतीयः -</speaker> रावणमपि पश्येतां भवन्तौ ।

<verse>
शरैर्भीमवेगैर्हयान् मर्दयित्वा ध्वजं चापि शीघ्रं बलेनाभिहत्य ।

महद् बाणवर्षं सृजन्तं नदन्तं हसन्तं नृदेवं भृशं भीषयन्तम् ॥१५॥
</verse>

<speaker>
प्रथमः-</speaker> एष हि रामः,

<verse>
स्थानाक्रामणवामनीकृततनुः किञ्चित् समाश्वास्य वै

तीव्रं वाणमवेक्ष्य रक्तनयनो मध्याह्नसूर्यप्रभः ।

व्यक्तं मातलिना स्वयं नरपतिर्दत्तास्पदो वीर्यवान्

क्रुद्धः संहितवान् वरास्त्रममितं पैतामहं पार्थिवः ॥ १६ ॥

</verse>

<speaker>
द्वितीय:-</speaker> एतदस्त्रं,

<verse>
रघुवरभुजवेगविप्रमुक्तं ज्वलनदिवाकरयुक्ततीक्ष्णधारम् ।

रजनिचरवरं निहत्य सङ्ख्ये पुनरभिगच्छति राममेव शीघ्रम् ॥ १७॥
</verse>

<speaker>
सर्वे -</speaker> हन्त निपातितो रावणः ।

<speaker>
प्रथमः-

</speaker>

<verse>
रावणं निहतं दृष्ट्रावा पुष्पवृष्टिर्निपातिता ।

एता नदन्ति गम्भीरं भेर्यस्त्रिदिवसद्मनाम् ॥ १८ ॥

</verse>

<speaker>
द्वितीयः-</speaker>भवतु । सिद्धं देवकार्यम् ।

<speaker>
प्रथमः-</speaker> तदागम्यताम् । वयमपि तावत् सर्वहितं रामं सम्भाव-

यिष्यामः ।

<speaker>
उभौ-

</speaker>बाढम् । प्रथमः कल्पः ।

<stage>
(निष्क्रान्ताः सर्वे । )
</stage>

<trailer>
विष्कम्भकः ।

</trailer>
</page>