This page has not been fully proofread.

३६४
 
द्वितीय:- अहोतुखलु,
 
अभिषेक नाटके
 
[ vi. 13. ---
 
चारीभिरेतौ परिवर्तमानौ रथे स्थितौ बाणगणान् वमन्तौ ।
स्वरश्मिजालैर्धरणि दहन्तौ सूर्याविव द्वौ नभसि भ्रमन्तौ ॥ १४ ॥
तृतीयः - रावणमपि पश्येतां भवन्तौ ।
 
शरैर्भीमवेगैर्हयान् मर्दयित्वा ध्वजं चापि शीघ्रं बलेनाभिहत्य ।
महद् बाणवर्षं सृजन्तं नदन्तं हसन्तं नृदेवं भृशं भीषयन्तम् ॥१५॥
प्रथमः- एष हि रामः,
 
स्थानाक्रामणवामनीकृततनुः किञ्चित् समाश्वास्य वै
तीव्रं वाणमवेक्ष्य रक्तनयनो मध्याह्नसूर्यप्रभः ।
व्यक्तं मातलिना स्वयं नरपतिर्दत्तास्पदो वीर्यवान्
क्रुद्धः संहितवान् वरास्त्रममितं पैतामहं पार्थिवः ॥ १६ ॥
 
द्वितीय:- एतदस्त्रं,
 
रघुवरभुजवेगविप्रमुक्तं ज्वलनदिवाकरयुक्ततीक्ष्णधारम् ।
रजनिचरवरं निहत्य सङ्ख्ये पुनरभिगच्छति राममेव शीघ्रम् ॥ १७॥
सर्वे - हन्त निपातितो रावणः ।
 
प्रथमः-
 
रावणं निहतं दृष्ट्रा पुष्पवृष्टिर्निपातिता ।
 
एता नदन्ति गम्भीरं भेर्यस्त्रिदिवसद्मनाम् ॥ १८ ॥
 
द्वितीयः-भवतु । सिद्धं देवकार्यम् ।
 
प्रथमः- तदागम्यताम् । वयमपि तावत् सर्वहितं रामं सम्भाव-
 
३ यिष्यामः ।
 

 
उभौ-
 
- बाढम् । प्रथमः कल्पः ।
 
(निष्क्रान्ताः सर्वे । )
विष्कम्भकः ।