This page has been fully proofread once and needs a second look.

<page>
<ignore>
—vi. 13 ]

षष्ठोऽङ्कः ।

</ignore>
<verse>
रावणेन विमुक्तेयं शक्तिः कालान्तकोपमा ।

रामेण स्मयमानेन द्विधा छिन्ना धनुष्मता ॥ ८ ॥

</verse>

<speaker>
प्रथमः-

</speaker>
शक्तिं निपातितां दृष्टाTvA क्रोध विस्फारितेक्षणः

रामं प्रत्यैवं वर्षमभिवर्षति रावणः ॥ ९ ॥

<speaker>
द्वितीय:-</speaker> अहो रामस्य शोभा ।

<verse>
एता रावणजीमूताद् बाणधारा विनिस्सृताः ।

विभान्ति राममासाद्य वारिधारा वृषं यथा ॥ १० ॥

</verse>

<speaker>
तृतीय:-</speaker> एष एषः,

<verse>
कनकरचितचापं तीक्ष्णमुद्यम्य शीघ्रं

रणशिरसि सुघोरं बाणजालं विधून्वन् ।

रथगतमभियान्तं रावणं याति पद्भ्यां

गजपतिमिव मत्तं तीक्ष्णदंष्ट्रो मृगेन्द्रः ॥ ११ ॥

</verse>
<ignore>
३६३

</ignore>

<speaker>
सर्वे-</speaker>अये ज्वलित इव प्रभायायं देशः । किन्नुखल्विदम् ।

<speaker>
प्रथमः-</speaker> आ युद्धसामान्यजनितशङ्केन महेन्द्रेण प्रेषितो मातलि -

वाहितो रथः ।

<speaker>
द्वितीयः -</speaker> उपस्थितं मातलिं दृष्ट्वा तस्य वचनाद् रथमारूढवान्

रामः ।

<speaker>
तृतीया: -</speaker> एष हि,

<verse>
सुरवरजयदर्पदेशिकेऽस्मिन् दितिसुतनाशकरे रथे विभाति ।

रजनिचरविनाशकारणः संस्त्रिपुरवधाय यथा पुरा कपर्दी ॥१२॥
</verse>

<speaker>
प्रथमः-</speaker> अहो महत् प्रवृत्तं युद्धम् ।

<verse>
शरवरपरिपीततीव्रबाणं नरवरनैर्ऋतयोः समीक्ष्य युद्धम् ।

विरतविविधशस्त्रपातमेते हरिवरराक्षस सैनिकाः स्थिताश्च ॥ १३॥

</verse>
<ignore>
४३

</ignore>
</page>