2025-12-29 10:00:39 by ambuda-bot
This page has not been fully proofread.
—vi. 13 ]
षष्ठोऽङ्कः ।
रावणेन विमुक्तेयं शक्तिः कालान्तकोपमा ।
रामेण स्मयमानेन द्विधा छिन्ना धनुष्मता ॥ ८ ॥
प्रथमः-
शक्तिं निपातितां दृष्टा क्रोध विस्फारितेक्षणः
रामं प्रत्यैवं वर्षमभिवर्षति रावणः ॥ ९ ॥
द्वितीय:- अहो रामस्य शोभा ।
एता रावणजीमूताद् बाणधारा विनिस्सृताः ।
विभान्ति राममासाद्य वारिधारा वृषं यथा ॥ १० ॥
तृतीय:- एष एषः,
कनकरचितचापं तीक्ष्णमुद्यम्य शीघ्रं
रणशिरसि सुघोरं बाणजालं विधून्वन् ।
रथगतमभियान्तं रावणं याति पद्भ्यां
गजपतिमिव मत्तं तीक्ष्णदंष्ट्रो मृगेन्द्रः ॥ ११ ॥
३६३
सर्वे-अये ज्वलित इव प्रभायायं देशः । किन्नुखल्विदम् ।
प्रथमः- आ युद्धसामान्यजनितशङ्केन महेन्द्रेण प्रेषितो मातलि -
३ वाहितो रथः ।
द्वितीयः - उपस्थितं मातलिं दृष्ट्वा तस्य वचनाद् रथमारूढवान्
रामः ।
६ तृतीया: - एष हि,
सुरवरजयदर्पदेशिकेऽस्मिन् दितिसुतनाशकरे रथे विभाति ।
रजनिचरविनाशकारणः संस्त्रिपुरवधाय यथा पुरा कपर्दी ॥१२॥
प्रथमः- अहो महत् प्रवृत्तं युद्धम् ।
शरवरपरिपीततीव्रबाणं नरवरनैर्ऋतयोः समीक्ष्य युद्धम् ।
विरतविविधशस्त्रपातमेते हरिवरराक्षस सैनिकाः स्थिताश्च ॥ १३॥
४३