2025-12-29 10:00:39 by ambuda-bot
This page has not been fully proofread.
३६२
अभिषेकनाटके
[ vi. 3.—
तृतीयः - एते चापि द्रष्टव्या भवद्भ्यां
निशितविमलखङ्गाः क्रोधविस्फारिताक्षा
विमल विकृतदंप्रा नीलजीमूतकल्पाः ।
हरिगणपतिसैन्यं हन्तुकामाः समन्ताद्
रभस विवृतवक्त्रा राक्षसाः सम्पतन्तिः ॥ ४ ॥
प्रथमः - - अहोतुखलु,
बाणाः पात्यन्ते राक्षसैर्वानरेपु
३ द्वितीय:-
तृतीय:-
शैला क्षिप्यन्ते वानरैर्नैर्ऋतेषु ।
मुष्टिप्रक्षेपैर्जानु सङ्घट्टनैश्च
सवें-
भीमश्चित्रं भोः ! सम्प्रमर्दः प्रवृत्तः ॥ ५ ॥
प्रथमः- रावणमपि पश्येतां भवन्तौ,
कनकरचितदण्डां शक्तिमुहालयन्तं
विमलविकृतदंष्ट्रं स्यन्दनं वाहयन्तम् ।
उदयशिखरमध्ये पूर्णबिम्बं शशाङ्कं
ग्रहमिव भगणेशं राममालोक्य रुष्टम् ॥ ६ ॥
द्वितीय:- राममपि पश्येतां भवन्तौ ।
सव्येन चापमवलम्ब्य करेण वीर-
मन्येन सायकवरं परिवर्तयन्तम् ।
भूमौ स्थितं रथगतं रिपुमीक्षमाणं
क्रौ यथा गिरिवरं युधि कार्त्तिकेयम् ॥ ७ ॥
तृतीयः -हहह ।
૪૨
अभिषेकनाटके
[ vi. 3.—
तृतीयः - एते चापि द्रष्टव्या भवद्भ्यां
निशितविमलखङ्गाः क्रोधविस्फारिताक्षा
विमल विकृतदंप्रा नीलजीमूतकल्पाः ।
हरिगणपतिसैन्यं हन्तुकामाः समन्ताद्
रभस विवृतवक्त्रा राक्षसाः सम्पतन्तिः ॥ ४ ॥
प्रथमः - - अहोतुखलु,
बाणाः पात्यन्ते राक्षसैर्वानरेपु
३ द्वितीय:-
तृतीय:-
शैला क्षिप्यन्ते वानरैर्नैर्ऋतेषु ।
मुष्टिप्रक्षेपैर्जानु सङ्घट्टनैश्च
सवें-
भीमश्चित्रं भोः ! सम्प्रमर्दः प्रवृत्तः ॥ ५ ॥
प्रथमः- रावणमपि पश्येतां भवन्तौ,
कनकरचितदण्डां शक्तिमुहालयन्तं
विमलविकृतदंष्ट्रं स्यन्दनं वाहयन्तम् ।
उदयशिखरमध्ये पूर्णबिम्बं शशाङ्कं
ग्रहमिव भगणेशं राममालोक्य रुष्टम् ॥ ६ ॥
द्वितीय:- राममपि पश्येतां भवन्तौ ।
सव्येन चापमवलम्ब्य करेण वीर-
मन्येन सायकवरं परिवर्तयन्तम् ।
भूमौ स्थितं रथगतं रिपुमीक्षमाणं
क्रौ यथा गिरिवरं युधि कार्त्तिकेयम् ॥ ७ ॥
तृतीयः -हहह ।
૪૨