This page has been fully proofread once and needs a second look.

<page>
<heading>अथ षष्ठोऽङ्कः ।</heading>

<stage>( ततः प्रविशन्ति विद्याधरास्त्रयः । )</stage>

<speaker>सर्वे -</speaker> एते स्मो भो ! एते स्मः ।

<pverse n="6.1a"><speaker>प्रथमः-</speaker>
इक्ष्वाकुवंशविपुलोज्ज्वलदीप्तकेतोः

<verse
n="6.1b"><speaker>द्वितीय:-</speaker>
रामस्य रावणवधाय कृतोद्यमस्य ।

<verse
n="6.1c"><speaker>तृतीयः-</speaker>
सङ्ग्रामदर्शनकुतूहलबद्धचित्ताः

<verse
n="6.1d"><speaker>सर्वे-</speaker>
प्राप्ता वयं हिमवतः शिखरात् प्रतूर्णम् ॥ १ ॥</pverse>

<speaker>प्रथमः-</speaker> चित्ररथ ! एते देवदेवर्षिसिद्धविद्याधरादयो निरन्तरं नभः
कृत्वा स्थिताः । तस्माद् वयमप्येतेषामेतान् गणान् परिहरन्तः
स्वैरमेकान्ते स्थित्वा रामरावणयोर्युद्धविशेषं पश्यामः ।

<speaker>उभौ-</speaker>बाढम् ।

<stage>( तथा कृत्वा )</stage>

<speaker>प्रथमः-</speaker> अहो प्रतिभयदर्शनीया खल्वियं युद्धभूमिः । इह हि,

<verse n="6.2">रजनिचरशरीरनीरकीर्णा कपिवरवीचियुता वरासिनक्रा ।
उदधिरिव विभाति युद्धभूमी रघुवरचन्द्रशरांशुवृद्धवेगा ॥ २ ॥</verse>

<speaker>द्वितीयः-</speaker> एवमेतत् ।

<verse>एते पादपशैलभग्नशिरसो मुष्टिप्रहारैर्हताः
क्रुद्धैर्वानरयूथपैरतिबलैरुत्पुच्छकर्णैर्वृताः ।
कण्ठग्राहविवृत्ततुङ्गनयनैर्दष्टोष्ठतीव्रैर्मुखैः
शैला वज्रहता इवाशु समरे रक्षोगणाः पातिताः ॥ ३ ॥</verse>
</page>