This page has been fully proofread once and needs a second look.

<page>
<ignore>
३६०

अभिषेकनाटके

</ignore>

v. 16. -

erse>वज्रीभकुम्भतटभेदकठोरधारः

क्रोधोपहारमसिरेष विधास्यति त्वाम् ।

सम्प्रत्यवन्त्वनिमिषा इह मत्करस्थः

क्षुद्र ! क्व यास्यसि कुतापस ! तिष्ठ तिष्ठ ॥ १६॥

</verse>

<speaker>
राक्षस: -</speaker> महाराज ! अलमतिसाहसेन ।

<speaker>
सीता -</speaker> अणिट्ठाणि अणरुहाणि अणिमित्ताणि इदाणिं करअंतस्स

रावणस्स अइरेण मरणं भविस्सिदि । <chaya>[ अनिष्टान्यनर्हाण्यनिमित्ता-

नी
दानीं कुर्वतो रावणास्याचिरेण मरणं भविष्यति । ]

</chaya>

<speaker>
रावणः -</speaker> अस्याः कारणेन बहवो भ्रातरः सुताः सुहृदश्व मे

निहताः । तस्मादमित्र विषयमस्या हृदयं भित्त्वा कृष्टान्त्रमालाल-

ङ्कृतः खड्गाशनिपातेन समनुजयुगलं सकलवानरकुलं ध्वंसयामि ।

<speaker>
राक्षसः -</speaker> प्रसीदतु प्रसीदतु महाराजः । अलमलमिदानीमरिबलावले-

पमन्तरेणानवरत वृथाप्रयासेन । अवश्यं च स्त्रीवधो न कर्तव्यः ।

<speaker>
रावणः -</speaker> तेन हि स्यन्दनमानय ।

<speaker>
राक्षसः -</speaker> यदाज्ञापयति महाराजः । <stage>(निष्क्रम्य प्रविश्य)</stage> जयतु महा-
१२

राजः । इदं स्यन्दनम् ।

<speaker>
रावण: - </speaker> <stage>( रथमारुह्य )

</stage>

<verse>
समावृतं सुरैरद्य सीते ! द्रक्ष्यसि राघवम् ।

मम चापच्युतैस्तीक्ष्णैर्बाणैराक्रान्तचेतसम् ॥ १७ ॥
</verse>

<stage>
( निष्क्रान्तः सपरिवारो रावणः । )

</stage>

<speaker>
सीता -</speaker> इस्सरा ! अत्तणो कुळसदिसेण चारित्तेण जदि अहं अणु-

सरामि अय्यउत्तं, अय्यउत्तस्स विजओ होदु । <chaya>[ ईश्वराः !

आत्मनः कुलसदृशेन चारित्रेण यद्यहमनुसराम्यार्यपुत्रम्, आर्यपुत्रस्य

विजयो भवतु । ]

</chaya>

<stage>
( निष्क्रान्ता । )

</stage>

<trailer>
पञ्चमोऽङ्कः ।

४०

</trailer>
</page>