2025-12-29 10:00:39 by ambuda-bot
This page has not been fully proofread.
३६०
अभिषेकनाटके
[ v. 16. -
वज्रीभकुम्भतटभेदकठोरधारः
क्रोधोपहारमसिरेष विधास्यति त्वाम् ।
सम्प्रत्यवन्त्वनिमिषा इह मत्करस्थः
क्षुद्र ! क यास्यसि कुतापस ! तिष्ठ तिष्ठ ॥ १६॥
राक्षस: - महाराज ! अलमतिसाहसेन ।
सीता - अणिट्ठाणि अणरुहाणि अणिमित्ताणि इदाणिं करअंतस्स
३ रावणस्स अइरेण मरणं भविस्सिदि । [ अनिष्टान्यनर्हाण्यनिमित्ता-
दान कुर्वतो रावणास्याचिरेण मरणं भविष्यति । ]
रावणः - अस्याः कारणेन बहवो भ्रातरः सुताः सुहृदश्व मे
६ निहताः । तस्मादमित्र विषयमस्या हृदयं भित्त्वा कृष्टान्त्रमालाल-
ङ्कृतः खड्गाशनिपातेन समनुजयुगलं सकलवानरकुलं ध्वंसयामि ।
राक्षसः - प्रसीदतु प्रसीदतु महाराजः । अलमलमिदानीमरिबलावले-
९ पमन्तरेणानवरत वृथाप्रयासेन । अवश्यं च स्त्रीवधो न कर्तव्यः ।
रावणः - तेन हि स्यन्दनमानय ।
राक्षसः - यदाज्ञापयति महाराजः । (निष्क्रम्य प्रविश्य) जयतु महा-
१२ राजः । इदं स्यन्दनम् ।
रावण: - ( रथमारुह्य )
समावृतं सुरैरद्य सीते ! द्रक्ष्यसि राघवम् ।
मम चापच्युतैस्तीक्ष्णैर्बाणैराक्रान्तचेतसम् ॥ १७ ॥
( निष्क्रान्तः सपरिवारो रावणः । )
सीता - इस्सरा ! अत्तणो कुळसदिसेण चारित्तेण जदि अहं अणु-
३ सरामि अय्यउत्तं, अय्यउत्तस्स विजओ होदु । [ ईश्वराः !
आत्मनः कुलसदृशेन चारित्रेण यथहमनुसराम्यार्यपुत्रम्, आर्यपुत्रस्य
विजयो भवतु । ]
( निष्क्रान्ता । )
पञ्चमोऽङ्कः ।
४०