2026-02-05 07:13:09 by akprasad
This page has been fully proofread once and needs a second look.
पञ्चमोऽङ्कः
ः ।
३५९
<p><speaker>राक्षसः-</speaker>हा धिक् त्रैलोक्यविजयी लङ्केश्वर एतामवस्थां प्रापितो
३
हतकेन विधिना । महाराज ! समाश्वसिहि समाश्वसिहि ।
<p><speaker>रावण: -
त्रैलोक्यविजयविफलया चपलया श्रिया च । किं भोः कृतान्तहतक !
६
अद्यापि भयविह्वलोऽसि ।
<verse>इदानीमपि निःस्नेहो वत्सेनेन्द्रजिता विना ।
कष्टं कठोरहृदयो जीवत्येष दशाननः ॥ १४ ॥
<p><stage>( इति सन्तापात् पतति । )
<p><speaker>राक्षस: -</speaker> हा भो रजनीचरवीराः ! एवंगते राजन्यन्तः
३
रक्षिणश्चाप्रमत्ता भवन्तु भवन्तः ।
<p><stage>( नेपथ्ये )
<p>भो भो रजनीचरवीराः ! समरमुखनिरस्तप्रहस्तनिकुम्भकुम्भक-
६
र्णेन्द्रजिद्विकलबलजलधिजनितभयचकित
मनुचितमविरतममरसमराणि जितवतां भवताम्, अथ च विश्वलोक-
विजयविख्यात
९
<p><speaker>रावणः-
<p><speaker>राक्षसः-
:-
राजः । एष हि रामः,
<verse>धनुषि निहितबाणस्त्वामतिक्रम्य गर्वा-
द्धरिगणपरिवारो हाससम्फुल्लनेत्रः ।
रणशिरसि सुतं ते पातयित्वा तु राज-
न्नभिपतति हि लङ्कां सन्दिधक्षुर्यथैव ॥ १५ ॥
<p><speaker>रावणः-</speaker><stage>( सहसोत्थाय सरोषम् )</stage> कासौ कासौ । <stage>( असिमुद्यम्य )
३९
</page>