This page has not been fully proofread.

-v. 15.]
 
पञ्चमोऽङ्कः
 
ः ।
 
३५९
 
राक्षसः-हा धिक् त्रैलोक्यविजयी लङ्केश्वर एतामवस्थां प्रापितो
३ हतकेन विधिना । महाराज ! समाश्वसिहि समाश्वसिहि ।
 
रावण: - ( समाश्वस्य ) इदानीमनर्थहेतुभूतया सीतया किमनया
त्रैलोक्यविजयविफलया चपलया श्रिया च । किं भोः कृतान्तहतक !
६ अद्यापि भयविह्वलोऽसि ।
 
इदानीमपि निःस्नेहो वत्सेनेन्द्रजिता विना ।
 
कष्टं कठोरहृदयो जीवत्येष दशाननः ॥ १४ ॥
 
( इति सन्तापात् पतति । )
 
राक्षस: - हा भो रजनीचरवीराः ! एवंगते राजन्यन्तः कक्ष्यास्थिता
३ रक्षिणश्चाप्रमत्ता भवन्तु भवन्तः ।
 
( नेपथ्ये )
 
भो भो रजनीचरवीराः ! समरमुखनिरस्तप्रहस्तनिकुम्भकुम्भक-
६ र्णेन्द्रजिद्विकलबलजलधिजनितभयचकित विमुखाः ! चपलपलायन-
मनुचितमविरतममरसमराणि जितवतां भवताम्, अथ च विश्वलोक-
विजयविख्यात विंशद्बाहुशालिनि भर्तर्यत्र स्थितवति लङ्केश्वरे ।
९ रावणः- (श्रुत्वा सामर्षम् ) गच्छ, भूयो ज्ञायतां वृत्तान्तः ।
राक्षसः-
:- यदाज्ञापयति महाराजः । ( निष्क्रम्य प्रविश्य ) जयतु महा-
राजः । एष हि रामः,
 
धनुषि निहितबाणस्त्वामतिक्रम्य गर्वा-
द्धरिगणपरिवारो हाससम्फुल्लनेत्रः ।
रणशिरसि सुतं ते पातयित्वा तु राज-
 
न्नभिपतति हि लङ्कां सन्दिधक्षुर्यथैव ॥ १५ ॥
 
रावणः-( सहसोत्थाय सरोषम् ) कासौ कासौ । ( असिमुद्यम्य )
 
३९